________________
११ सर्गः)
,
हीरसौभाग्यम् ।
५२७
वायुवेगेन चलद्रथाङ्ग रथपादो यत्र । 'इण् गतौ' इत्यस्य धातोः शतृप्रत्यये यत् इति निष्पद्यते । 'यहारुणदारणं प्रकुर्वाणम्' इति व्यासपष्टिके काव्ये । प्रयोगस्तु क्रियारत्नसमुच्चये । के इव । यदुपतय इव । यथा वासुदेवेशाः उद्यद्दीप्यमानं रथाङ्गं प्रतिभजप्रतिहतं चक्रं नामायुधविशेषो येषां तादृशाः स्युः । उत्प्रेक्ष्यन्ते-शताङ्गाः त्वष्टा विश्वकर्मणा देववार्धकिना स्वेनात्मना मृटा निर्मिता इव । पुनरेते श्रीमत्पुरस्तादूर्ध्वदमा: पत्तिव्रजाः पदातिप्रकरा जाग्रति सन्ति । 'सत्तायामस्त्यास्ते जागर्ति च विद्यते च ध्रियतेऽथ' इति क्रियाकलापे । उत्प्रेक्ष्यते--मूर्ति तनुं दधतो बिभ्राणाः वीर इति नाम येषां तादृशाः पञ्चमा रसा इव । अस्मिन्काव्ये संबोधनपदादग्रे मे इत्यादेशोऽस्ति । स तु यद्यपि सारखतव्याकरणे 'संबोधनपदादने न भवन्ति वसादयः' इत्युक्तत्वात्तदनुसारेण संबोधनपदादग्रे एते वसादय आदेशा न भवन्त्येव, तथाप्यन्यत्र क्वाप्यादेशा दृश्यन्ते । यथा वाक्यप्रकाशे-'मित्र ते मे मोदते मनः' इत्युक्तेः । तथा वैतालिककृतौ विक्रमादित्यस्तुतावपि - 'स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः' इत्युकत्वाच्च । अत्रापि खामिनिति संबोधनादने 'मे' इत्यादेशपदं प्रयुक्तं न दोषायेति॥ स्वर्ण तदेतद्भवदङ्गचङ्गिमश्रीस्पर्धिशिक्षावितितीर्षवो रुषा । निक्षिप्य वह्रौ च घननिहत्य च्छिन्दन्ति टकैरिव यत्कलादाः॥१३॥ हे गुरो, इदं श्रीमत्पुरो ढौकितं स्वर्ण काश्चनं तत्प्रसिद्धखनीभवमास्ते । अथ वा तद्यत्संबन्धनिष्ठम् । तत्किभूतम् । यत्सुवर्ण भवतां श्रीमतामङ्गस्य वपुषश्वङ्गिमा चारुता तस्य श्रिया लक्ष्म्या राजते । 'जिनवचनपद्धतिरुक्तिचङ्गिममालिनी' इति पद्मसुन्दरकृ. तमालवरागजिनध्रुवपदे । स्पर्धते इत्येवंशीलमत एव कारणात् शिक्षां ताडनादिदण्डं वितितीर्षवो दातुमिच्छवः कलादाः स्वर्णकारा: रुषा अनौचित्यकरणोद्भूतभूमकोपेनेव वही वैश्वानरे निक्षिप्य क्षेपयित्वा । च पुनर्घनलोहमयकुटनोपकरणैनिहत्य कुट्टयित्वा टकैरायसतीक्ष्णमुखटङ्कनकैश्च छिन्दन्ति शकलीकुर्वन्तीव ॥
स्फूर्जज्ज्योतिर्जलदपथवद्वन्दमेतन्मणीनां
मुक्तापतिस्ततिरिव सतां शुद्धिमत्तां वहन्ती । यानवाता व्रतिप शिबिकाद्या विमाना इवामी
वासांस्येतान्यपि सुमनसामंशुकानीव सन्ति ।। १३६ ॥ हे व्रतिप व्रतिनः संयमिनः पाति रक्षयति पालयतीति व्रतिपस्तस्य संबोधनम् । एतत्प्रत्यक्षं झगज्झगिति कान्तितति निर्दलितान्धकार मणीनां नानारत्नानां वृन्दं वर्तते। किंभूतम् । स्फूर्जद्दीप्यमानं ज्योतिदीप्तिर्यस्य । किंवत् । जलदपथवत् । यथा जलदानां पन्था मार्गो गगनम् । स्फूर्जन्ति झगज्झगिति कान्तिमन्ति ज्योतींषि ग्रहनक्षत्रतारका यत्र तत् । पुनरेषां श्रीमल्लोचनगोचरसंचरिष्णुमौक्ति कमाला विद्यते । किं कुर्वन्ती। शुद्धिमत्तामतिशयेन निर्मलत्वं वहन्ती धारयन्ती । केव। सतां ततिरिव । उत्तमपतिनि