________________
५२०
काव्यमाला।
विलासा यत्र । पुनः किंभूतम् । जिनानां तीर्थकृतां पदैः स्थानैः । प्रासाटेरित्यर्थः । कृता विहिता शोभा यत्र । पुनः किंभूतम् । संचरन्तः सम्यक् समीचीन स्वरोचमानसल्लकीपप्रमुखं चरन्तो भक्षयन्तः। अथ वा सम्यक् खहस्तिनीभिश्चरमस्वर्णपट्टबन्धपञ्चशब्दवादित्रविविधविरुदावली प्रकटनपूर्वकं प्रचलन्तः श्वेता भद्रजातिजातत्वेनोज्ज्वला दन्तिनो गजेन्द्रा यत्र । क इव । यथा वरटाया राजहंस्याः। 'वारला वरला हंसी वारटा वरटा च सा' इति हैम्याम् । तथा 'नवप्रसूतिर्वरटा तपखिनी' इति नैषधे। वल्लभो भर्ता राजहंसः । खर्वहाया गगननिम्नगाया गङ्गायास्तटं तीरं भूपयति । किंलक्षणं तटम् । विबुधपतिः सुरेन्द्रस्तस्य पुरंध्रीभिः पत्नीभिः कमनीयप्रक्रान्तजलजन्मोपचयमजनोन्मन्बनादिजलविला यत्र । पुरंध्रीशब्दो दीर्घोऽप्यस्ति । यथा 'अखिलपुरपुरंध्रीने वनी-' इति नैषधे । तथा जिनस्य विष्णोस्त्रिभिस्तारारूपैः पदैः कृता निर्मिता शोभा यत्र । अथ वा जिनपदे आकाशे विरचिता श्रीर्येन । एतावता गगनगहेत्युपपन्नम् । तत्रैव च शक्रकान्तानामुपलक्षणात्सुराङ्गनानां च जलक्रीडाया औचिती । तथा संचरन् जलपानाद्यर्थमागच्छन्नैरावणो यत्र ॥
प्रभोरागमनोदन्तः प्रससार पुरान्तरे ।
चान्दनीय इवामोदः क्षितौ मलयभूभृतः ॥ ११५ ॥ प्रभोहीरसूरेरागमनस्यापादावधारणस्योदन्तः प्रवृत्तिः समाचारः पुरान्तरे अकमिपु. रमध्ये प्रससार विस्तरति स्म । क इव । आमोद इव । यथा चान्दनीयः श्रीखण्डद्रुमसंबन्धी परिमल: मलयाचलस्य आषाढभूधरस्य क्षितौ भूमौ प्रसरति ॥
विज्ञायागमनं यतिक्षितिपतेरामोदमेदखितां । __ प्राप्ताः पौरपरम्परा मधुऋतो!हा इवोर्वीरुहाम् । गन्तुं संमुखमस्य नश्यदतनोः सज्जीबभूवुस्ततः ।
श्राद्धा राजगृहोद्भवा इव मृगारातिध्वजस्याहतः ॥ ११६ ॥ ततस्तदागमनश्रवणानन्तरं पौरपरम्परा नागरिकपतय: अकमिपुरश्रावकप्रकराः नश्यन् द्वेषितया हन्तुं प्रतिश्रुतत्वेन मृतिभीतेः पलायमानः अतनुरनङ्गो यस्मात् । 'अतनुना नवमम्बुदमाम्वुदम्' इति नैषधे । तस्यास्य सूरेरभिमुखं गन्तुं सजीवभवः । के इव । श्राद्धा इव । यथा राजगृहे नगरे उत्पत्तिर्येषां तादृशाः श्राद्धाः मृगारातिः सिंहो ध्वजश्चिहं यस्य तस्याहतस्तीर्थकरस्य । महावीरदेवस्येस्यर्थः । संमुखं प्रयातुं सज्जा भ. वन्ति स्म । किंभूताः । आमोदेन हर्षेण मेदखितां पुष्टतामालादोल्लसितरोमाञ्चकञ्चको पचितकायत्वं प्राप्ता इत्यर्थः । किं कृत्वा । यतिक्षितिपतेर्मुनिराजस्य आगमनमकमिपुरसमीपे समवसरणं विज्ञायावगत्य । क इव । व्यूहा इव । यथा मधुऋतोर्वसन्तसमयस्यागमनं प्रादुर्भावं ज्ञात्वा उर्वीरुहां वृक्षाणां समूहा आमोदमेदखितां परिमलोपचिततां प्राप्नुवन्ति ॥