________________
५१४
काव्यमाला |
यो दृश्यन्ते । भेरी प्रसिद्धा मदनभेर्यपि । दुन्दुभिर्निः खानो राजवाद्यमानकः पटहः 'ढोल' इति प्रसिद्धः ॥
त्वयारोपि केतुः कुले योगभाजामितीवालपन्तं क्वणैः किंकिणीनाम् । स्वमूर्ध्ना विहायः स्पृशन्तं स केतुं मुमुक्षुक्षितीशोऽक्षिलक्षीचकार ९७
व मुमुक्षुक्षितीशः । निजाग्रे इति ज्ञेयम् । केतुं ध्वजमक्षिलक्षीचकार लोचनगोचरीकुरुते स्म पश्यति स्म । किं कुर्वन्तं केतुम् । स्वमूर्ध्ना निजमस्तकेन कृत्वा विहायों व्योमाङ्गणं स्पृशन्तं संघट्टयन्तम् । अम्बरचुम्बितमित्यर्थः । उत्प्रेक्ष्यते - किंकिणीनां ' क्षुद्रघण्टिकानां वणैः रणज्झणितिशब्दैः इत्यालपन्तं गुरुं प्रति कथयन्तमिव । इति किम् । हे प्रभो, त्वया योगभाजां योगीन्द्राणां कुले वंशे केतुः पताका ध्वज आरोपितः ॥ सशब्दानिवाब्दान्पतद्वारिधारान्ध्वनद्भङ्गनिर्यद्रसान्सान्द्रसालान् । निरीक्ष्य क्षणं नृत्यतः क्लृप्तके कारवान्केकिनो दक्षिणानैक्षतासौ ॥ ९८ ॥
असो सूरिर्दक्षिणान्दक्षिणदिग्विभागवर्तिनः अनुकूलान्वा केकिनो मयूरानैक्षत आलोकते स्म । कतिचन शकुना दक्षिणविभागस्थिता सिद्धिविधातारो भवन्ति । यदुक्तम् —'जम्बूवा समयूरो भारद्वाहे तहेवन उलेअम् । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥' इति । किंभूतान्केकिनः । लृप्तो विरचितः कृतः केकारवो यैस्ते । केकिनां वा केका शुक्लापाङ्गोऽस्य वा केका । अत एव केका विद्यते येषां ते केकिनः तान् । पुनः किं कुर्वतः । नृत्यतः ताण्डवमाडम्बरयन्तः । किं कृत्वा । क्षणं निमेषमात्रं सान्द्रान् सच्च्छायान् सस्नेहान्वा सालान्द्रुमान्वृक्षान्निरीक्ष्य दृष्ट्वा । किंभूतान् सालान् । ध्वनन्तो मञ्जुगुञ्जारवं कुर्वन्तः शब्दायमाना भृङ्गा भ्रमरा येषु । पुनः किंभूतानं । निर्यन्तोऽविरलं निर्गलन्तो निःसरन्तो रसा मकरन्दा येभ्यस्तान् । कानिव । अब्दानिव । यथा सहशब्दवैर्वर्तन्ते येते तथा । पतन्त्यो निरन्तरं निर्यान्त्यो वारिणां जलानां धारा रेखाकारा दृष्टयो येभ्यस्तादृशान् । मेघानालोक्य मयूरा नृत्यन्ति ॥
अवामेव वामाप्यमुष्यानुकूलं चुकूज द्रुमे भक्ष्यमादाय देवी | त्रिलोकीमिवाकारयन्सेवनायै विभोर्दक्षिणीभूय चाषोऽप्युवाच ॥ ९९ ॥
देवी कृष्णवटिकापोतकी नामा । यदुक्तं सुरथोत्सवकाव्ये - 'पोत की दयितपिच्छसच्छविः' इति । लोके तु . देवीति प्रसिद्धा । निष्कण्टकहरिततरौ स्थिता उपविष्टा सती वामापि सव्यभागवर्तिन्यपि अथ च वामाप्रतिकूलाप्युच्यते । परं नात्र परमार्थतः । अवामेव दक्षिणेव अनुकूलेव वेत्यर्थः । अमुष्य सूरेरनुकूलमायतौ हितसूचकं चुकूज बभाषे । वर्धमानखरान् कृतवती । किं कृत्वा । भक्ष्यसमूहं 'चूणि' इति प्रसिद्धमादाय गृहीत्वा भक्षयित्वा । अपि पुनः चाषः किकी दिवि: नीलपक्षिविशेषः । लोके 'नीक्वास' इति प्रसिद्धः । दक्षिणीभूयापसव्यभागवर्ती भूत्वा तोरणं बद्धा प्रदक्षिणीकृत्य