________________
११ सर्गः] हीरसौभाग्यम् ।
५०९ हे श्राद्धाः, पुनर्नमश्चिकीर्षोरुपरि भूमिभानोरकब्बरसाहेममाह्वाननमाकारणं समागात् सम्यग्रीत्या अनुकूलवृत्त्या न बलहठप्रकृत्या । आह्वाननशब्दोऽपि दृश्यते । यथा चम्पूकथायाम्-'तत्तातस्य कृतादरस्य रभसादाबाननं दूरतस्तञ्चाङ्के विनिवेश्य बाहुयुगलेनाविष्य संभाषणम् । ताम्बूलं च तदर्धचर्वितमतिप्रेम्णा · मुखेनार्पितं पाषाणोपम हा कृ. तन्न हृदय स्मृत्वा न किं दीर्यसे ॥' इति । 'समागान्ममाह्वानमुर्वीमघोनः' इति पाठान्तरं वा । उवीमघोनः पृथ्वीपुरंदरस्याकब्बरस्य मम सम्यङ्मानपूर्वकमाह्वानमाकारणमागात् । कस्येव । बप्पभट्टैरिव । यथा बप्पभटिसूरेरामस्य गोपालगिरिराजनगरराजितकान्यकुब्जजनपदनायकस्य राज्ञो भूपालस्याकारणं समागात् । 'पितृदत्तराज्योपविष्टामराजेन खप्रधानपुरुषान्प्रेष्यातिमैन्याद्गुरुपायद्वप्पभहिराकारितः' इति तत्प्रबन्धात् ज्ञेयम् । ततः कारणार. तत्र पूर्वदेशे गत्वा तमंकब्बरपातिसाहिमहमुद्बोधयामि उत्प्राबल्येन सम्य. ग्ज्ञानशालिनं करोमि । प्रतिबोधयामीत्यर्थः । किंभूतम् । मोहोऽज्ञानमेव निद्रा तन्द्रा तया कृत्वा शयालुं शयनशीलम् । सदसद्विवेकामावविकलीभूतमित्यर्थः । किंवत् । दिनारम्भवत् । यथा प्रभातं मौढ्येन निद्रया शयानं जगज्जागरयति ॥
ततः पूर्वसूरीन्द्रवत्प्राच्यदेशे प्रणम्या मया श्रीजिनाधीशितारः । मयीतः प्रयाते यतस्तत्र धर्मोऽधिगन्ता विवृद्धिं मृगाके कलावत् ८३ . ततः कारणात् पूर्वसूरीन्द्रवत्प्राचीनाचार्यवत् मया प्राच्यदेशे पूर्व दिङमण्डले श्रीजिनाधीशिंतारः श्रीमजिननायकाः प्रणम्या नमस्करणीयाः । यतः कारणात् मयि इतोऽस्मात्स्थानाद्गुर्जरेभ्यो वा तत्र मेवातमण्डले साहिपार्श्वे वा प्रयाते सति धर्मो वि. वृद्धि विशेषेण वृद्धिं पुष्टिं दीप्ति वा अधिगन्ता प्राप्स्यति । 'अधिगतं विधिवद्यदपालयत्' इति रघौ । अधिगतं प्राप्तम् । 'अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः' इति नैषधे । अधिगत्य प्राप्येति खस्तनीप्रयोगस्तातारीतारम् । किंवत् । कलावत् । यथा मृगाङ्के चन्द्रे पूर्वदेशं गते सति कला वृद्धिमधिगच्छति ॥
प्रतिष्ठासमानस्य मे वाषेिधी हितं काङ्कता केनचिन्नो निगद्या। यदत्रान्तरायीभवन्नम्बुदानामिवावग्रहः कस्य न स्यादनिष्टः ॥ ८४ ॥ हे श्राद्धाः, प्रतिष्ठासमानस्य पूर्वदेशान् प्रति प्रस्थातुकामस्य प्रचलितुमिच्छतो मे मम हितमायतौ इष्टं समीहितार्थ काश्ता वाञ्छता केनचिच्छाद्धेन साधुना वा चतुर्विधसंघमध्ये केनापि निषेधी निषेधिका निषेधं प्रतिपादयित्री वाक् वाणी नो निगद्या न वाच्या न कथनीया । यत्कारणादत्र कार्ये ममान्तरायीभवन् विघ्नकर्तृत्वेन जायमानः कस्य हितैषिणो धर्मवृद्धिविधातुः पुंसोऽनिष्टो द्वेषकारी असूयाकारणं न स्यात् । अपि तु सर्वस्यापि धार्मिकस्यानिष्ट एवेति । क इव । अवग्रह इव । यथाम्बुदानां जलदायकाना मेघानामवग्रहो वृष्टिरोधविधायी जगतोऽप्यनिष्टः स्यात् ॥
अनध्यायिकास्ये तिथिर्वास्यते स्माश्रये प्राधुणीवेत्युदित्वाथ तेन । निजास्यामृतांशोस्तिथीनां प्रणीत्वं तदा सार्थकं खेन निर्मित्सतेव ८९