________________
५०२
.
काव्यमाला।
समाकर्ण्य सम्यक्प्रकारेण प्रवणगोचरीकृत्य । श्रुत्वेत्यर्थः । गुणान् किं कुर्वतः । सुधाधामवत्पीयूषकान्तींश्चन्द्रानिव शुध्रिमाणं श्वेतभावं विभ्रतो धारयतः । उत्प्रेक्ष्यतेजगतां त्रिभुवनजनानां सुरासुरनराणामन्तःकरणानामाकर्षणे खसमीपानयने रश्मीन् रजरिव ॥ त्रिभिविशेषकम् ॥ सुवर्णोऽप्यवर्णः सुरावासवासी न लेखोऽपि मूकोऽप्युदन्तं ब्रुवाणः । प्रभो गृह्यतां नागरैरित्युदित्वा स लेखः पुरोऽमोचि वाचंयमेन्दोः ॥६॥
नागरैरकमिपुरधावकरित्यमुना प्रकारेणोदित्वा कथयित्वा वाचंयमेन्दोः साधुसुधारुचेः सूरेः पुरोऽग्रे अकबरसाहिप्रहितो लेखः स्फुरन्मानापरनामा अमोचि मुक्तः । सूरीणां पाणिपने समर्पित इत्यर्थः । इति किम् । हे प्रभो, अयं लेखो गृह्यताम् । किंभूतः । सुशोभनो वर्णो ब्राह्मणादिविद्यते यस्य । पुनः किंभूतः । अवर्ण: न विद्यते .. वर्णो यस्य । इति विरोधः। विरोधशान्तौ तु विशिष्टः शुक्लादिरथ वा शोभनं वर्णम् अथ वा चित्रमालेख्यं वा यस्मिन् सः । अथ कृष्ण इव श्यामा वर्णा अक्षराणि यत्र । 'वर्णः वर्णे मखे स्तुती ॥ रूपे द्विजादौ शुक्लादी कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः ॥ अङ्गरागे च वर्ण तु कुङ्कुमे' इत्यनेकार्थः । पुनः किलक्षणः । लेखो देवोऽपि सन् सुराणां निर्जराणामावासे वसतीत्येवंशीलः । अयमपि विरोधः । लिख्यते लिपीक्रियते खहृदयगतोदन्तादिरति लेखः । पुनः किंभूतः । मूकः अवागपि वचनरहितोऽपि उदन्तं वाचिकं सर्वसमाचारं ब्रुवाणो वदन् । अयमपि विरोधः । शान्तौ तु प्रेषकेणान्तलिपिविषयीकृतं सविस्तरं वाचिकः कथयन् ॥ इति श्राद्धानामकब्बरसाहिसाहिबखानयोरुदन्तकथनपूर्व गुरूणां तत्स्फुरन्मानार्पणम् ॥ . , प्रदेशीव केशिवतिक्षोणिशकैरसौ बोधनीयो नृपः पूज्यपादैः । महान्तो हि विश्वोपकृत्यै यतन्ते घनाः किं न सर्व जगजीवयन्ति ॥११॥ __ पूज्यपादैः श्रीपूज्यैरसौ नृपोऽकब्बरपातिसाहिः बोधनीयः प्रतिबोधयितव्यः धर्मे स्थापनीयः । क इव । प्रदेशीव यथा केशिवतिक्षोणिशकैः केशिनामगणधरैः प्रदेशी नाम नृपो बोधितः श्रीमजिनधर्मे स्थापितः । हि यस्मात्कारणात् महान्तः सन्तो विश्वस्य जगजनस्य उपकृत्यै उपकारकृते यतन्ते उद्यम कुर्वन्ति । तदेव दृष्टान्तयति-घना मेघाः सर्व समस्तं सचराचरं जगद्विश्वजनं किं न जीवयन्ति । अपि तु स्ववारिवृष्टिभिजीवयन्त्येव । यदुक्तम् -'संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति जगतोऽपि हि जीवितारम्भः ।।' इति जीवनदायित्वाच्च ॥ अपेक्षां च न कापि कुर्वन्ति सन्तः स्वभावेन किं तूपकुर्वन्ति सर्वान् । किमभ्यर्थितानि प्रसूनानि कैश्चिजनान्सौरभैः स्वैर्यदामोदयन्ति ॥ १२ ॥
च पुनः क्वापि कुत्रापि स्थाने य: कश्चिदभ्येत्यात्यर्थ मामभ्यर्थयते तस्याहं कृत्यं करोमीत्यपेक्षा । तां न कुर्वन्ति किंतु सन्तः स्वभावेनैव सर्वानुपकुर्वते । परेषामा