________________
११ सर्गः] हीरसौभाग्यम् ।
४९९ कैविविधतीर्थयात्राविधायकैर्जनः स्तोकमानैरल्पप्रमाणैः सिद्धधात्रीधरस्य श्रीश. जयशैलस्य संनिधाने गम्यते । किंभूतैः श्राद्धः यात्रिकैश्च । शिवश्रिया मुक्तिलक्ष्म्या विवाहे पाणिग्रहणकरणे उत्सुकीभूतमुत्कण्ठितं चित्तं मनो येषां तैः ॥ इति गन्धारे श्राद्धानां गमनम् ॥ स्फुरद्वाहुशाखः सपाणिप्रवालः प्रबर्हश्रियं विभ्रदभ्रान्तशोभा । नखाननसूनाचिरुद्यन्मरन्दो नमन्नागरीनेत्रविभ्राजिभृङ्गः ॥ ११ ॥ द्विजोद्भासितः सिद्धिसस्यैकधारी भवग्रीष्मतिग्मांशुतापापहारी । शिवाध्वन्यसंसेव्यमानो न्यभालि वतीन्द्रोऽध्वशाखी स तैः पौरपान्थैः॥१२॥ • तैरकमिपुरसत्त्वैः तत्रागतर्वा पोरै गरैरेव पान्थैरान्मुक्तिपुरपथिकैः स सर्वजगद्वि
ख्यातो हीरविजयनामा व्रतीन्द्रः सूरि रेवावशाखी मार्गच्छायातरुः न्यभालि निरीक्षितः। किंभूतः। स्फुरद्वाहुर्भुजैव शाखा यस्य । पुनः किंभूतः । सह पाणिप्रवालेन हस्तपल्लवेन वर्तते यः । पुनः किं कुर्वन् । प्रवहीं प्रकृष्टामथ च प्रकृष्टानां वर्हाणां पत्राणाम् । 'बर्हः पर्णे परीवारे कलापे' इत्यनेकार्थः श्रियं शोभां बिभ्रत । पुनःकिंमतः।न भ्रान्तत्वेन मिथ्याभ्रमज्ञानत्वेन सत्यज्ञानतयैव शोभते इत्येवंशीलः । तथा द्रुमार्थे अत्युच्चै स्तरत्वादाकाशे अवसानत्वेन शालते इत्येवंशीलः । पुनः किंभूतः । नखा एवानूनानि सर्वावयवसंपूर्णानि सूनानि कुसुमानि यस्मिन् स तथा । अचिरानखानानेव कान्तिरेवोद्यन्प्रकटीभवन्मरन्दो मधु यत्र । पुनः किंभूतः । नमन्तीनां भक्तिप्रसतया चरणारविन्दे लगन्तीनां नागरीणां गन्धारमागरिकनारीणां नेत्राणि लोचनान्येव विभ्राजिनः शोभनशीला भृङ्गा भ्रमरा यत्र । पुन: किंभूतः । द्विजैर्दशनैः शकुन्तैश्च उद्भासितः शोभितः । पुनः किंभूतः। सिद्धिर्मुक्तिरेव, अथ वा सिद्धयोऽष्टावणिमाद्याः, अथ वा तथा तपःशक्तयो विविधलब्धयस्ता एव सस्यानि फलानि तेषामेकोऽद्वितीयोऽन्येषु तादृक्सादृश्याभावाद्धरतीत्येवंशीलो धारी धारकः । पुनः किंभूतः । भवः संसारः स एव ग्रीष्म उष्णकाल: तस्य तिग्मांशुः सार्थकं नाम चण्ड किरणस्तस्य ज्येष्ठमाससंबन्धी तापस्तदुपरि च तपनतापो महानिदाघस्तस्य हन्ता अपहन्तीत्येवंशीलः । अत्र शीले तृञ् । हन्ता हननशील: । वृक्षच्छायायां तापोपशान्तिः स्यादिति । पुनः किंभूतः । अध्वन्यैर्मोक्षमार्गप्रस्थितपान्थैः सम्यग्ज्ञानचारित्रादिपल्लवपुष्पफलादानपूर्वकं सेव्यमान उपास्यमानः । वृक्षधर्माः सर्वेऽप्यत्रैव दर्शिताः सन्तीति ॥ युग्मम् ।।
नभोम्भोदगोजितस्तोत्ररावप्रतिध्वानितोपान्तपाथोधिमध्याः । मुदा हीरसूरीन्द्रपादारविन्दं व्यधुर्मुनि लोहोत्तमोत्सवत्ते ॥ ५३॥ ते श्राद्धा मुदा प्रमोदेन हीरसूरीन्द्रस्य हीरविजयसूरिपुरंदरस्य पादारविन्दं चरणकमलं लोहोत्तमानां सुवर्णानामुत्तंसवदवतंसशेखरमिव मूर्ध्नि निजमस्तके व्यवु: कुर्वन्ति स्म । किंभूताः। नभसः श्रावणमासस्य योऽम्भोदो वारिवीं मेघस्तस्य गर्जा गर्जितध्व