________________
४९४
काव्यमाला। स्थितोऽद्रिः सुराणामिवाक्रम्य सर्वा दिशः साहिरास्ते प्रभो पर्वतायुः । सुताः शक्तिभेदा इव स्फूर्तिमन्तः सुखिन्यः सुमुख्योऽपि किं राजलक्ष्म्यः ३१ कुले धैर्यभाजामिवाधीश साहेः परीवारतन्त्रे अनातङ्किनी स्तः । महानन्दयुक्ताश्च मुक्तात्मवत्तत्प्रजा इत्यमुं तवयं प्रत्यवोचत् ॥ ३२ ॥ __ तद्वयं दूतयुग्मम् अमुं साहिबखानं प्रति इत्यनुना प्रकारेण प्रत्यवोचत् प्रतिभाषते स्म । प्रत्युत्तरं प्रददावित्यर्थः । हे प्रभो हे साहिबखान, साहिरकब्बरः पर्वतवद्गिरिरिव दीर्घमायुर्यस्य तादृगास्ते । किंलक्षणः । सुराणामदिौरिव सर्वाः समस्ता अपि दिशः आक्रम्य खीकृत्य स्थितः । पुनः सुताः साहिपुत्राः प्रभुत्वोत्साहमन्त्रलक्षणानां तिसृणां शक्तीनां भेदा इव स्फूर्तिमन्तः प्रोर्जखलाः सन्ति । अपि पुनः सुमुख्यः साहिगृहिण्यः सुखिन्यः शर्मशालिन्यः सन्ति । उत्प्रेक्ष्यते-सुमुख्यो राजलक्ष्म्य इव । प्रबलप्रतिभटाभावात् राजलक्ष्म्यः सुखिन्यो भवेयुः । हे अधीश हे स्वामिन् , साहेः परीवारतन्त्रे परिच्छदसैन्ये । 'कटकं ध्वजिनी तन्त्रम्' इति हैम्याम् । अनातङ्किनी नीरोगे समाधिशालिनी । के इव । कुले इव । यथा धैर्यभाजां धीरताधारिणां सत्त्ववताम् । महावीराणामित्यर्थः । गोत्रे वंशौ अनातदिनी निर्भये भवतः । 'रोगो रुजारुगान्तष्कः,' तथा 'भयं भी तिरातङ्कः' इति द्वयमपि हैम्याम् । चपुनस्तस्य साहेः प्रजाः पौरजानपदाश्च लोका महानन्देन परमाह्लादेन युक्ताः सहिता वर्तन्ते । किंवत् । मुकात्मवत् । यथा संसारनिर्मुक्तात्मानः सिद्धाः महानन्देन मोक्षण सहिता भवन्ति ॥ इति दूतप्रोतसाहिप्रमुखकुशलोक्तिः ॥ युग्मम् ॥ . निपीयेति तद्वाग्विलासामृतं स ह्रदं दन्तिवत्प्रीतिमन्तर्जगाहे ।
अवेत्य प्रसत्तिं पुनः पातिसाहेरवैति स्म संप्राप्तसर्वस्ववत्वम् ॥ ३३ ॥ स साहिबखानः इति पूर्वोकप्रकारेण तयोर्दूतयोर्वाग्विलासो वचनचातुरी स एवामृतं सुधां निपीय सादरं श्रवणगोचरीकृत्य अन्तश्चित्ते प्रीति मोदं जगाहे प्राप्नोति स्म । किंवत् । दन्तिवत् । यथा हस्ती अमृतं पानीयं नितरां पीत्वा हृदं द्रहमवगाहते । पुनरपरार्थकथने । खान: पातिसाहेरकब्बरधराधिराजस्य प्रसत्तिं खस्मिन्विषये प्रसाद संतुष्टिपुष्टिमवेत्य हृद्गोचरीकृत्य स्वमात्मानं संप्राप्तं हस्ते अधिगतं सर्वखं निःशेषक्ष्मामण्डलमध्यवर्तिद्रव्यम् उपलक्षणात् राज्यादिग्रहः सर्वपदार्थसार्थो वा येन । तद्वदवैति स्म जानाति स्म बुबुधे ॥
अथाकारिताः श्रावक्रास्तेन भृत्यैश्चकोरा इव श्वेतभासा मयूखैः । क्रमात्तेऽपि तेषां गताः संनिकर्ष निदेशं प्रभोर्निर्दिशन्ति स्म सर्वम् ॥३४॥ अथ दूतवचनानन्तरं तेन साहिबखानेन भृत्यैः खसेवकैः श्रावका अकमिपुरवृद्धश्राद्धा आकारिता आहूताः । केनेव । श्वेतभासेव । यथा चन्द्रमसा मयूखैः खकिरणैश्च.