________________
४९२
काव्यमाला।
रवालैप्पादिताः सन्तः पेतुः । क्षितौ पतन्तीत्यर्थः। उत्प्रेक्ष्यते-उवींमम्बां क्षोणी मातरं मिलन्तीव पृथिव्युत्पन्नत्वेन स्नेहात् ॥
सुवर्णश्रियाद्वैतयालंकृतायाः सुधास्पन्दिवाग्वैदुषीभूषितायाः । कुमार्या इव क्ष्मापतेः पत्रिकाया असौ तेन पाणिग्रहः कार्यते स्म ॥२४॥
तेन दूतद्वन्द्वेन असौ साहिबखानः श्मापतेर्भूमीभर्तुः कुमार्याः कन्याया इव मापतेरकब्बरसाहेः पत्रिकायाः स्फुरन्मानस्य पाणिना हस्तेन ग्रहणमादानं स्वीकरणं वा पाणिग्रहण परिणयनं च कार्यते स्म निर्माप्यते स्म । पाणौ ग्राहितेत्यर्थः । किंभूतायाः पत्रिकायाः कुमार्याश्च । अद्वैतया अनन्यसामान्यया सुशोभनानां वर्णानामक्षराणां हेम्नश्च श्रिया लक्ष्म्या सुवर्णतुल्यया वा श्रिया अलंकृताया भूषितायाः । पुनः किंभतायाः । सुधाममृतं स्पदन्ते क्षरतीति प्रस्रवतीत्येवंशीला या वाग्वदुषी वचनचातुरी तया भूषितायाः ॥
ततः कोशवभूमहेन्द्रस्य मुद्रां प्रमोदादुपादाय लेखं दधानम् । विमुद्याक्षराण्यक्षिलक्षाणि कुर्वन्विवेदाशयं तस्य निःशेषमेषः ॥ २५ ॥ ततो लेखादानानन्तरमेषः साहिबखानः तस्य स्फुरन्मानस्य निःशेषं समग्रमप्याशयमभिप्रायं रहस्यं विवेद जानाति स्म । किं कुर्वन् । विमुद्य मुद्रयित्वा अक्षराणि वर्णानक्षिलक्षाणि लोचनगोचरान् कुर्वन् । किं कृत्वा । प्रमोदादानन्दाल्लेखं साहिस्फुर. न्मानमुपादाय 'तसलीम' इति यवनप्रसिद्धेन नाना प्रणामपूर्व तदुपरि खशिरोमोचनपूर्व वा गृहीत्वा । किं कुर्वाणं लेखम् । भूमहेन्द्रस्य राज्ञः कोशं भाण्डागारमिव मुद्रां मुद्रणं निमीलनं दधानम् ॥ इति साहिस्फुरन्मानस्यार्पणं वाचनं च ॥
पुरस्तात्तयोः प्रीतिमान्मुद्गलेशो गिरं वासयामास वक्रारविन्दे । विनिर्यविजश्रेणिशोचिर्विमिश्रस्मितेनेव तन्वन्मरालैकलीलाम् ॥ २६ ॥ प्रीतिमान् नेहार्द्रहृदयो मुद्गलेशः साहिबखान: तयोर्दूतयोः पुरस्तादने वक्रारविन्दे वदनकमले गिरं वाणीं वासयामास स्थापयति स्म । बभाष इत्यर्थः । अथ च गिर सरस्वती देवी मुखपद्मे वासितवान् । सरखत्याः संनिधाने त्ववश्यं वाहेन हंसेन भाव्यं तदेव दर्शयति । उत्प्रेक्ष्यते-विनिर्यद्वदनाद्वहिनिःसरद्विजानां दन्तानां श्रेण्योर्मालिकयोः शोचिः कान्तिस्तेन विमिश्रेण करम्बितेन स्मितेन कृत्वा मरालस्य राजहंसस्य एकामद्वितीयां लीला विलासं शोभा वा तन्वद्विस्तारयन्निः ॥
प्रभुर्भद्रवान्कच्चिदास्ते हमाऊंसुतोऽकब्बरो बब्बरोर्वीशवंश्यः । जिताश्चण्डदोर्दण्डवीर्येण येन न्यवात्सुर्दिगन्तेषु शङ्के दिगीशाः ॥२७॥
कचिदिष्टपरिप्रश्ने अव्ययम् । द्विवचनस्याप्यव्ययाद्विभक्तेलृक् । हे दूतौ, अकम्बरः प्रभुनः खामी भद्रवान् कुशली आस्ते । किंभूतः । हमाऊंनान्नो राज्ञः सुतः ! पुनः