________________
११ सर्गः)
हीरसौभाग्यम् ।
अत्रास्मिन् हीरसौभाग्यमिति नाम यस्य तादृशे हीरसूरेहरिविजयगणधरस्य चरिते दशमः सर्गः संजातः समभवत् । किंभूतः । रसैः वीरकरणाबीभत्सशान्तादिभिर्नामभिः कृत्वा उज्वलो दीप्यमानः ॥
इति पण्डितसीहविमलशिष्यपण्डितदेवविमलविरचितायां खोपज्ञहीरसौभाग्यनाममहाकाव्यवृत्ती दिल्लीमण्डलनगरनागरहमांउतनन्दनाकबरसाहिरिपुदिग्विजयफतेपुरस्थापनासाहिसभासाहितप्रश्नसभ्यप्रोक्तश्रीहीरविजयसूरिगुणवर्णनो नाम दशमः सर्गः ॥
एकादशः सर्गः । अथाह्वातुमीहांबभूवाब्धिनेमीतमीशो मुनीनां सुनासीरमेनम् । प्रबोधाय धर्मात्मनः किं निजस्यावतीर्ण पुनहेमचन्द्रं व्रतीन्द्रम् ॥ १ ॥ अथ सभ्यजनवर्णितश्रमणेन्द्रगुणश्रवणानन्तरमब्धिनेमेः समुद्रमेखलाया भूमेस्तमीशो रात्रिपतिश्चन्द्रः । भूपतिरित्यर्थः । सः अकब्बरसाहिः एनं श्रीहीरविजयनामानं मुनीनां सुनासीर · वाचंयमपुरंदरमाह्वातुं खसमीपे समाकारयितुमीहांबभूव वाञ्छति स्म । धर्म एव आत्मा खरूपं यस्य भाविनिभूतोपचारात् तादृशस्य निजस्याकब्बरात्मनः प्रबोधाय धर्मावबोधार्थम् । अथ च धर्मात्मनः कुमारपालस्य । 'कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः। मृतखमोक्का धर्मात्मा मारिव्यसनवारकः ॥' इति हैम्याम् । प्रबो. धाय प्रतिबोधकृते पुनर्द्वितीयवारमवतीर्ण गृहीतावतारं हेमचन्द्रं व्रतीन्द्रं हेमाचार्यमिव ॥
ततोऽजूहवतयुग्मं वियुग्मीकृतारातिपक्षः क्षमाकर्मसाक्षी। पयोराशिपर्यन्तराष्ट्रप्रतिष्ठा मनीषीव यद्वेद निःशेषभाषाः ॥ २॥
ततः सूरेराकारणाकालानन्तरं क्षमायाः क्षोणेः कर्मसाक्षी भाखानकब्बरसाहिः खस, भायो भूमौ च प्रसिद्धं ख्यातिमत् दूतयुग्मं संदेशहारकद्वन्दुमजूहवदाकारयामास । किंभूतः क्षमाकर्मसाक्षी । वियुग्मीकृताः वियोगं स्त्रीभिः सम-विश्लेषं प्रापिता: अरातीनां वैरिणां पक्षा वंशा रिपुवर्गा येन। किंभूतं दूतयुग्मम् । यत् निःशेषाः समस्ता भाषा वि. विधदेशोत्कीर्वेद जानातीति । क इव । मनीषीव । यथा विद्वानिःशेषाः षडपि संस्कृत-प्रा. कृत-मागधी-शौरसेनी-पैशाची-अपभ्रंशी-लक्षणा भाषा वेत्ति । किंलक्षणा भाषाः । पयोराशयश्चत्वारः समुद्राः पर्यन्तः प्रान्तो येषां तादृशा ये राष्ट्रा देशाः । राष्ट्रशब्दः पुनपुंसके । 'भ्रष्ट्रापकरराष्ट्रातक्रजठराः' इति लिङ्गानुशासने। तेषु प्रतिष्ठा माहात्म्यप्र. सिद्धिर्यासां ताः ॥ विपक्षान्क्षितौ क्ष्माभृतो हन्तुमेतो धुलोकादिवाखण्डलः खर्गिवर्गः। द्विषत्कालरात्रीयितानेकवीरं द्विषां पर्षदीति स्तवीति प्रभुं यत् ॥ ३ ॥
यदूतयुग्मं द्विषां शत्रूणां पर्षदि सभामध्ये प्रभुं वखामिनमित्यमुना प्रकारेण स्तवीति वर्णयति। किंभूतं प्रभुम् । द्विषतां प्रतिपक्षलक्षाणां कालरात्रिः प्रलय निशा । यस्यां