________________
४७४
.
काव्यमाला।
रुचीशब्दो दीर्घइकारान्तोऽप्यस्ति । यथा नैषधे-'वरुणपहिणीमाशामासादयन्तममुं रुचीनिचयमिव' इति । 'नो चेत्ता चण्डरोचीरुचिरुचिरुची' इति जिनशतकेऽपि । अलोकस्य जीवाजीवादीनामनाधारक्षेत्रस्य मध्ये विचालेन प्रविश्यते । अलोकेषु सूर्यादीनां न प्रकाशः । परशासनेऽपि दृश्यते । यथा रघुवंशे-'सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चान्धकारश्च लोकालोक इवाचलः ॥' 'चक्रवालाचलादकि प्रकाशः परतश्चाप्रकाशः' इति तद्वृत्तौ । 'लोकालोकश्चक्रवालः' इति हैम्याम् ॥
संसृत्यसारसरणीभ्रमणीभवेन
विश्वत्रयीजनिमतां नयता विमोहम् । सङ्गेन यद्यतिपतेः पुरतः प्रणेशे
नागेन नागदमनीत इवोद्धतेन ॥ १०४ ॥ यस्य यतिपतेर्निर्ग्रन्थनाथस्य पुरतोऽग्रे सङ्गेन खजनपरिजनाभिष्वङ्गेन प्रणेशे प्रणष्टम् । संसारविरक्तत्वात्तस्य कुत्रापि प्रतिबन्धो नास्तीत्यर्थः । किंभूतेन । संसृतिः संसरणमनन्तभवाटवी पर्यटनं संसारः तद्रूपा विविधनरकतिर्यगादिदुःखपरम्परादायिस्वादसारा निकृष्टा सरणिर्मार्गस्तत्र भ्रमण्या पर्यटने भ्रमणेन कृत्वा भवेनोत्पन्नेन । सांसारिककुटुम्बसंबन्धसंजातेनेत्यर्थः । अत एव किं कुर्वता। विश्वत्रय्यास्त्रैलोक्यस्य जनिमा सुरासुरनराणां विमोहं मौव्यं नयता प्रापयता । केनेव नेशे । नागेनेव । यथा उत्कटेन मदेन कोपेन वोटुरेण भुजंगमेन नागानां सर्पाणां दमनी शक्तिमवनी औषधिविशेषस्तस्मात्प्रणश्यते ॥
संक्रान्तशक्रबलिधामधरापदार्थ
सार्थे जिनागमकषोल्लिखितान्तराले । संक्रान्तिरापि न कदापि हृदात्मदर्शे
सूरीश्वरस्य किमनङ्गतयाङ्गजेन ॥ १० ॥ सूरीश्वरस्य हृत् हृदयमेवातिखच्छत्वादात्मदर्शो दर्पणस्तत्र अङ्गजेन कंदर्पण कमनः कलाकेलि: । 'अनन्यजोऽङ्गजः' इति हैम्याम् । कदापि कस्मिन्नपि काले खापजाप्रद. वस्थातारुण्यतरुणीदर्शनादिसमयेऽपि संक्रान्तिः संक्रमणं प्रतिविम्बं प्रवेशं च नापि न प्रापे । यस्य मनसि कस्मिन्नपि प्रस्तावे स्मरोद्रेको नासीदित्यर्थः । उत्प्रेक्ष्यते-अनङ्गतया अशरीरत्वेनेव संक्रामणं तु देहस्यैव स्यात्तस्य तु स एव नास्ति तस्मात्कुतः संक्रा. न्तिरिति । किंभूते हृदात्मदर्श । संक्रान्ताः प्रतिबिम्बिताः शक्रस्येन्द्रस्य बलेर्बलिनानो दानवेन्द्रविशेषस्य धानोर्मन्दिरयोः खर्गपातालयोः । तथा धराया निखिलमहीमण्डलस्य च पदार्थानां घटपटस्तम्भकुम्भदानवदानवारिमानवाद्यनेकवस्तूनां सार्थाः समूहा यत्र । प्रतिविम्बं च निर्मले वस्तुनि स्यात् । अत एव पुनः किंभूते हृदात्मदर्शे । जिनागमो