________________
काव्यमाला।
अथ हीरविजयसूरिगुणवर्णनप्रारम्भ:
अध्याप्य देवगुरुणा स्वविनेयवर्गः ___ खख्यातये प्रतिभुवं प्रहितैरिवैतैः । सभ्यैर्गुणान्कवयितुं कतिचित्तदीया
प्रारभ्यते स्म वसुधाधिपतेः पुरस्तात् ॥ ९९ ॥ सभायां साधुभिः सभ्यैः सभास्तारैः वसुधाधिपतेर्भूमण्डलाखण्डलस्य. पुरस्तादने तदीयान् हीरविजयसूरिसंबन्धिन: कतिचित्सर्वात्मना कथयितुमशक्यतया कियत्संख्याकान् गुणान्कवयितुं स्तोतुम् । 'ईट्टे कवयति कवते' इति क्रियाकलापे । प्रारभ्यते म्म । उत्प्रेक्ष्यते-देवगुरुणा सुराचार्येण बृहस्पतिना अध्याप्य पाठयित्वा स्वयं सर्वशास्त्रका लापारगामिनो विधाय वख्यातये सर्वावनीवलये निजप्रसिद्धिविहितये भुवं प्रति भूमी. मण्डले प्रहितैः प्रस्थापितैः खविनेयवगैर्निजान्तेवासिवृन्दैरिव ॥
एतस्य दृष्टिरजनिष्ट विभो सदृक्षा ।
भिक्षाचरेऽमृतभुजामपि सार्वभौमे । भक्तेऽप्यभक्तिकृति वार्षिकवारिदस्य - वृष्टिर्यथेक्षुविपिने कनकद्रुमे च ॥ १० ॥ हे विभो खामिन् , एतस्य हीरविजयसूरेदृष्टिर्टक् भिक्षया ग्रासमात्रेण चरति वृत्तिमाजीविकां विदधातीति भिक्षाचरो भिक्षुकः । दरिद्र इत्यर्थः । तस्मिंस्तथा अमृतभुजां सुधाशनानां देवानां सार्वभौमे चक्रवर्तिनि पुरंदरे च सदृशा निर्विशेषा सदृशी अजनिष्ट संजाता । पुनर्भक्के खसेवासक्ते भक्तिनिर्भरान्तःकरणतयाशनांशुकादिदायके वा तथा भभक्तिकृति अवज्ञाकारिणि अनिष्टविधायिनि वा पुंसि तुल्यैव अस्य सूरेदृष्टिरज. निष्ट । यथा वर्षासु भवो वार्षिकः वर्षाकालसंबन्धिनो वारिदस्य बहुलसलिलाखण्डधारावर्षिणो मेघस्य वृष्टिर्वर्षणमिक्षूणां रसालानां 'सेलडी गूंदगरी' इति प्रसिद्धानां विपिने वने । क्षेत्रे इत्यर्थः । तथा कनकतरौ धत्तूरकवृक्षे च सदृशैव संजायते ॥
संध्याश्रविभ्रममिवाध्रुवभावभाज
मुद्भावयन्भवमभङ्गुरतां च सिद्धेः । आवेदयत्यसुमतः कुलयातयामो
वंश्यानिवायतिहितः स हिताहितार्थम् ॥ १०१ ॥ स हीरविजयसूरिरसुमतः सकलभविकजन्तून् प्रति हितानिहपरलोकेष्टान् । तथा भहितान् द्वयोरपि लोकयोरनिष्टविधायिनोऽर्थान् भावान्पदार्थान्वा आवेदयते कथयति। क इव । कुलयातयाम इव । यथा गोत्रबद्धः पुमान् वंश्यानिजपुत्रपौत्रादिकान् प्रति