________________
१० सर्गः]
हीरसौभाग्यम् । वा सन्ति । सूर्याणां द्वादशत्वेन बाहुल्याद्रहाणामपि बाहुल्यम् । सूर्याणां ग्रहपतित्वात् । पुनः किंभूताः । जिष्णुत्वेन सुभटतया शौर्येण जयनशीलतया रमा लक्ष्मीः तया अ. भिरामा गजाश्वग्रामादिबहुविभुतिभ्राजिनः । 'जिते च लभ्यते लक्ष्मीः' इति वचनात् । श जैत्राणां सुभटानां हि प्रायः खामिनो प्रामान्ददते इति रीतिः । के इव । नीरेशितार इव । 'वार्नदीश: सरस्वान्' इति हैम्याम् । वारिपतिर्नदीपतिश्चेति संयोगाद्वा । यथा समुद्रा जिष्णुरमाभ्यां कृष्णतत्पत्नीभ्यां कृत्वा मनोज्ञाः । समुद्रशायी कृष्णः । लक्ष्म्यास्त जायात्वेन सांनिध्यम् । पुन: किंभूताः । वदान्यभावं दानशौण्डता प्रकपेण दधतो बिभ्रतः । के इव । श्रीदा इव । यथा धनदा दानशीलत्वं दधते । पुन: किंभूताः । वागधीशाः । प्रगल्भवाग्विलासाः । 'वागीशो वाक्पतौ' इति हैम्याम् । क इव । धिषणा इव । यथा सुराचार्याः । 'धिषणः फाल्गुनीभवः । गीर्वृहत्योः पतिः' इति हैम्याम् । वाचामधीशा भवन्ति ॥ . स्वस्त्रैणजैत्रमणिकल्पितशिल्पचञ्च
त्पाञ्चालिकापहृतलोचनचित्तवृत्तिः । पूर्वापराम्बुनिधिसीममहीमघोनो
या संसदाप सुषमां बलभित्सभेव ॥ ९३ ॥ पूर्वापराम्बुनिधी प्राच्यप्रतीच्यसमुद्री सीमा अवसानं मर्यादा यस्यास्तादृश्या मह्या भूमेर्मघोनो वासवस्य संसत् सभा सुषमां सातिशायिशोभा प्राप लेभे । केव बलभिसभेव । यथा बलनामानं दानवेन्द्रं भिनत्ति हन्तीति बलभित्पुरंदरस्तस्य सभा पर्षत् सुधर्मानानी सुषमामाप्नोति । किंभूता । स्वः स्वर्गस्य स्त्रीणां समूहः स्त्रैणं सुराङ्गनागणस्तस्य जैत्रीभिर्जयनशीलाभिः मणिभिर्विविधरत्नैः कल्पितं रचितं शिल्पं विज्ञानं तेन चञ्चन्तीभिः शोभमानाभिः । अथ वा मणिभिनिमितं विज्ञानं यासां तथा चश्चन्तीभिः पाश्चालिकाभिः पुत्रिकाभिरपहृता खायत्तीकृता खासु एकताना विहिता लोचनानामर्थाद्विलोककान्तानयनानां मनसां चेतसां च वृत्तिापारो यया सा ॥ इत्यकब्बरसभावर्णनम् ॥
गोष्ठी सृजन्क्षितिसितांशुरशेषशास्त्रा____धीतीव तत्सदसि कोविदमेदुरायाम् । धर्म विशिष्य परिचेतुमना इति स्म
सामाजिकाननुयुनक्ति कदाचिदेषः ॥ ९४ ॥ एषोऽकब्बरः क्षितिसितांशुर्धरणीरोहिणीरमणः कदाचित् कस्मिंश्चित्सगये विशिष्य विशेषप्रकारेण कृत्वा धर्म मोक्षसाधकं मार्ग परिचेतुं परिचितिगोचरीकर्तुं मनोऽन्तःकरणं यस्य सः । तस्यां पूर्वव्यावर्णितखरूपायां सदसि सभायां सामाजिकान्