________________
*૧*
काव्यमाला |
[तस्थौ समाः स कियतीः पुरमागराख्यां भूमान्विभूष्य मधुरामिव वृष्णिसूनुः । भर्तुर्वशेव सरसा सरसीरुहास्या श्यामाङ्कमर्कतनुजा भजते स्म यस्याः ॥
स भूमण्डले मुद्गलेन्द्रतया विख्यातो भूमानकब्बर: आगरा इत्याख्या नाम यस्यास्वादृशीं पुरं नगरीं विभूष्यालंकृत्य कियतीः कियत्संख्याकाः समा वर्षाणि । 'हायनोऽब्दं समाः शरत्' इति हैम्याम् । यावत्तस्थौ स्थितिमकार्षीत् । क इव । वृष्णिसूनुरिव । यथा वृष्णेरन्धकवृष्णेः सूनुर्नन्दनो वसुदेवोदसारः कंसोपरोधेन कतिचित्संख्याकान् संवत्सरान् स्थितवान् । यस्या आगराख्यायाः पुरो मथुरापुर्याश्व अर्कतनुजा कालिन्दी अङ्कं समीपं भजते स्म सिषेवे । 'अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ॥' इत्यनेकार्थः । केव वशेव । यथा पत्नी भर्तुरन्तिकमुत्सङ्गं भजते । किंभूता । सह रसैः पानीयैः शृङ्गारादिभिर्वा वर्तते या सा सरसा । पुनः किंभूता । सरसीरुहं पद्मं तदेव तद्वद्वा आस्यं वदनं यस्याः । पुनः किंभूता । श्यामा कृष्णवर्णा । 'जम्मन्तरे न विहडइ उत्तममहिलाण जं कियंपि कम्मं । कालिन्दी कन्हविरहे अजवि कालं जलं वहई ॥' इति वृत्तरत्नाकरवृत्तौ । पक्षे षोडशवार्षिकी ॥ पाठान्तरम् ॥] स श्रीकरीपुरमवासयदात्मशिल्पि -
सार्थेन डाबरसरः सविधे धरेशः । इन्द्रानुजात इव पुण्यजनेश्वरेण
श्रीद्वारकां जलधिगाधवसंनिधाने ॥ ६३ ॥
स धरेशः अकब्बरधरणीरमणः आत्मनः स्वाज्ञावशवर्तिना शिल्पिसार्थेन विज्ञानिनिचहेन डाबर इति नाम्नः सरसः प्राक् साहिनैव स्वयं खानितस्य द्वादशक्रोशमितस्य तटाकस्य सविधे पार्श्वे श्रीकरी इति नाम्नीं पुरं नगरं अवासयत् वासयति स्म । क इव । इन्द्रानुजात इव । यथा ‘शक्रावरजो विष्णुः दाशार्हः । पुरुषोत्तमोऽब्धिशयनोपेन्द्रावत्रेन्द्रानुजाः ॥ इति हैम्याम् । तथा 'का नुजे मम निजे दनुजारौ' इत्यपि नैषधे । पुण्यजनानां यक्षाणामीश्वरेण स्वामिना । 'कैलाशोकायक्षधननिधिपुण्य किंपुरुषेश्वरः' इति हैम्याम् । शक्रादिष्टधनदेन । जलधिगानां नदीनां धवो भर्ता समुद्रस्तस्य संनिधाने स मीपे श्रिया स्वर्णरत्नादिसमृद्धया संयुक्तां द्वारकानाम्नीं पुरीं वासयामास निवेशयति स्म ॥ प्राक्काश्यपीपतिरकब्बरपातिसाहि
स्तस्याः पुरः प्रतिभटान्प्रचलन्विजेतुम् । आशा दशापि कुरुते स्म फते स यस्मा - तस्मात्फतेपुरमिति प्रददे तदाह्वाम् ॥ ६४ ॥