________________
४३७
१० सर्गः] हीरसौभाग्यम् ।
मद्वंशजक्षितिरथोदयिनी हृदन्त
१ःखप्रकर्षत इति स्फुटितोरसीव ॥ १९ ॥ कुमुदिनीनां कैरविणीनां रमणो वरयिता कुमुदिनीरमणः। मेदिन्या धरण्याः कुमुदि. नीरमणः स चासौ कुमुदिनीरमणश्च । 'इदं तमुवीतलशीतलद्युति' इति नैषधे । तस्य प्रयाणे खरिपूपरि प्रस्थाने परिपन्थिभिः प्रत्यर्थिभिरर्थात् पृथिवीनाथैरभ्रपान्थे गगनपथिके भास्करे । 'हरिः शुचीनौ गगनाद्धजाध्वगौ' इति हैम्याम् । सूर्यमण्डले इत्यर्थः । छिद्रं विवरं न्यभालि ददृशे दृष्टम् । उत्प्रेक्ष्यते-अथाकब्बरसाहेरागमनानन्तरं मद्वंशे मदीयान्ववाये जायन्ते स्म उत्पद्यन्ते स्मेति मद्वंशजाः सूर्यवंशीयास्तेषामेतावता सूर्यवंशोत्पन्नानां भूपालानां राजन्यवीराणां च क्षितिः क्षयो विनाश उदेष्यति भविष्यतीत्येवंशीला उदयिनी भाविनी इति हेतो«दन्तश्चित्तमध्ये दुःखस्य प्रकर्षतोऽतिशयतः स्फुटितं द्विधाभूतं सच्छिद्रं वा जातमुरो हृदयं यस्य तादृश इव । 'पन्था भाखति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः' इति नैषधे । म्रियमाणा रणे सूर्ये छिद्रं पश्यन्तीत्वरिष्टवेदिनः । यद्वा । 'द्वावेतौ पुरुषौ लोके सूर्यमण्डलभेदिनः । परिवाड्योगयुक्तश्च रणो चाभिमुखो हतः॥' इत्युक्तत्वात् । ‘स सूर्ये छिद्रं निरीक्षते' इति तु तदृत्तिः। तत्तो भानौ रन्ध्रनिभालनमिति ॥ इति प्रतीपनृपतीनामरिष्टाविर्भावना ॥
यस्य प्रसृत्वरयशःशरभूसवित्री - खःकूलिनीव करवाललता बभूव ।
यस्यां निमज्य रिपुराजपरम्पराभि
: येनान्वभावि दितिजद्विषतां विभूतिः ॥ २० ॥ . यस्याकम्बरसाहेः करवाललता खड्गयष्टिः खःकूलिनी मन्दाकिनीव बभूव जाता। 'किंभूता । प्रसृत्वरं विश्वविस्तरणशीलं यद्यशः कीर्तिः तदेव शरभूः खामिकार्तिकस्तस्य सवित्री जननी येन कारणेन। यस्यां करवाललताखःकूलिन्यां निमज्ज्य बुडित्वा स्नात्वा तदभिमुखमागत्य प्रहृत्य च पश्चत्वमासाद्य रिपवः शत्रवो जना एव राजानस्तेषां परम्पराभिः श्रेणीभिः दितिजानां दितेरसुरमातुर्जायन्ते स्मेति दितिजास्तेषां द्विषतां वैरिणां देवानां विभूतिः सुरश्रीरन्वभावि अनुभूयते स्म । गङ्गायां रणे च त्यतप्राणा देवभूयं भजन्तीति परमतम् । 'मृते चापि सुराङ्गनाः' इत्युक्तेः ॥
यस्मिन्रणाङ्गणगते प्रहताहिताश्वाः
शौर्योदयादिवि मुहुर्मुहुरुत्पतन्ति । भूमौ निजाभिभवतः सवितुः सगोत्रां
. स्तार्थ्यानिवाश्रयितुमुत्सुकतां वहन्तः ॥ २१ ॥ यस्मिन्नकम्बरभूपतौ रणाङ्गणं संप्राममध्यं गते प्राप्ते सति प्रहताः शसंप्रहाराविना व्या.