________________
१० सर्गः]
हीरसौभाग्यम् ।
चरणं स्थानं ससर्ज सृजति स्म । किंभूतेन वैभवेन । दम्भोलिर्वजं पाणौ हस्ते यस्य स तस्य सहस्रनेत्रस्य नगर्या अमरावत्या विभवस्य अभिभवनमभिभावतत्र प्रागल्भ्यं प्रतिभावत्तां चातुर्यमुद्यममुत्साहं वा आकलयता बिभ्रता पदं चक्रे । केव । कालीव । यथा पार्वती कासरनामानं सुराणां देवानामसहजं विरोधिनं खस्यात्मनो विभोर्भावो वैभवम् । अत्र भावेऽण् । तेन वैभवेन सामर्थ्येन महत्त्वेन वा। 'स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्' इति कल्याणमन्दिरस्तवे । 'विभु: समर्थः' इति तद्वत्तिः । बालगृहं पातालं निर्जित्य जित्वा अस्य महिषासुरस्य मौलौ मस्तके पदं खचरणं चकार । तन्मूर्तेस्तत्प्रकारदर्शनात् ॥ इति दिल्ली ॥
तस्यां महीहिमकरण हमाँउनाना __ जज्ञे पुरंदरविजित्वरविक्रमेण । यस्यौजसेव विजितेन पदं मुरारे
स्तत्तुल्यतां स्पृहयतांशुमता न्यषेवि ॥ १० ॥ तस्यां दिल्लीनगर्या हमाँउ इति नाम यस्येति तेन हमाँउनाना महीहिमकरेण क्षोणीरोहिणीरमणेन जज्ञे संजातम् । किंभूतेन । पुरंदरस्य वासवस्य विजित्वरो विशेषेण जयनशीलो विक्रमो बलं यस्य तेन । यस्य हमाउपातिमाहेरोजसा प्रतापेन विजितेनाभिभूतेन सता । पुनस्तस्य हमाँउप्रतापस्य तुल्यतां सादृश्यं स्पृहयता इच्छता अंशुमता सूर्येण । उत्प्रेक्ष्यते-मुरारेर्नारायणस्य पदं चरणं विष्णुपदं न्यषेवि सेव्यते स्म इव ॥
श्रीकाबिलाधिपतिबब्बरपातिसाहि
पुत्रः पुलोमदमनोऽखिलमुद्गलानाम् । सूरस्य सूनुमपि निर्मितवान्सदण्डं ।
___ कालं करालमपि यः प्रसरत्प्रतापैः ॥ ११ ॥ - यो हमाँउपातिसाहिः अभिषेणनेन विनैव प्रसरद्भिर्जगद्यापकैर्दशदिक्षु विस्तृतैः प्रतापैः खतेजोभिरेव शूरस्य श्लेषचित्रयोः सकारशकारयोरभेदात् भास्करस्य सूनुं नन्दनम् । 'प्रेतात्पतिर्दण्डधरोऽर्कसूनुः' इति हैम्याम् । सुभटस्याङ्गजातमपि करालं मृत्युत्वेन विविधायुधधारकत्वेन भीषणं परेषां भयोत्पादकं कालं कृतान्तं कालवर्णमपि सदण्डं वेत्रिणम् । 'छडीदार' इति प्रसिद्धम् । राजदेयांशयुतं दण्डदायिनमित्यर्थः। निर्मितवान्विधत्ते स्म । केवलं खौजसैव, न पुनरभिषेणनादिना सदण्डं विहितवानित्यर्थः । किंभूतः । श्रिया सेनादिविभवेन कलितो यः काबिल इति नामा मुद्गलानां मण्डलो देशविशेषस्तस्याधिपतिः खामी यो बब्बरपातिसाहिस्तस्य पुत्रो नन्दनः । पुनः किंभूतः । अखिलानां मुद्गलानां यवनजातिविशेषाणां म्लेच्छानां पुलोमनाम्नो दानवविशेषस्य दमनो व्यापादकः शक्रः । मुद्गलेन्द्र इत्यर्थः ॥ इति हमाँउपातिसाहिः ॥ .