________________
९ सर्गः] हीरसौभाग्यम् ।
जम्भकव्रजवजन्मोत्सवे शंभीर्वणिग्वरः ।
ववर्ष वसुधाराभिस्तस्य सूरिपदक्षणे ॥ १०१ ॥ ___ वणिग्वरः समयनैगमगणेष्वग्रणी: मूलाख्यश्रेष्ठी तस्य विजयसेनसूरेराचार्यस्य यत्पदं तस्य क्षणे प्रदानस्य महोत्सवे वसुधाराभिः मुवर्णरूप्यमाणकश्रेणिभिर्ववर्ष वर्षति स्म । सुवर्णरूप्यकमहमुन्दिनाणकैः प्रभावनां कृतवानित्यर्थः । किंवत्। जृम्भकवजवत् । यथा शंभोस्तीर्थकरस्य जिनेन्द्रस्य जन्मोत्सवे जननमहामहे सौधर्मेन्द्रादिष्टधनदलोकपालानुज्ञया वैश्रवणसेवकस्तिर्यक्जृम्भवकगीर्वाणगणो हिरण्यवर्णरजतरत्नवस्त्रवासचूर्णपुष्पफ• लादिवृष्टिं कुर्वन्ति ॥
तस्मिन्विनिहितं सूरिपदं सूरिसितांशुना ।
दिदीपे भास्वता ज्योतिरिव सायं धनंजये ॥ १०२ ॥ तस्मिन्विजयसेनाभिधाने व्रतीन्द्रे सूरिसितांशुना हीरविजयसूरिसुधामरीचिना सूरेराचार्यस्य पदं विनिहितं स्थापितं सदिदीपे दीप्यते स्म । किमिव । ज्योतिरिव । यथा भास्वता दिवाकरेण सायं संध्यासमये धनंजये वैश्वानरे विनिहितं ज्योतिर्नक्तमतीव दीप्यते । वासरे तादृशी दीप्तिन भवति याडशी निशायां दीप्रा दीप्तिर्भवति । प्रसिद्ध चैतत् । किं चास्तं व्रजन्नम्भोजिनीवल्लभो धूमध्वजे खतेजोऽवस्थाप्य गच्छति प्रातरा. गतश्च गृह्णातीति कविसमयः । तथा रघुवंशे-'दिनान्ते निहितं तेजः सवित्रेव हुताशनेः' इति ॥ .
शोभामुभौ लभेते स्म श्रीमत्सूरिपुरंदरौ ।
प्रणिनन्तौ तमःस्तोमं सूर्याचन्द्रमसाविव ॥ १०३ ॥ ___ श्रीमन्तो गणनायकैश्वर्यलक्ष्मीकलितौ यशःशोभाभाखरी सूरिपुरंदरौ हीरविजयसे. नाभिधाचार्यबिडौजसौ उभौ द्वावपि शोभां कीति ख्यातिं लभेते स्म आसादयामासतुः । किंभूतौ । तमसामज्ञानानां दुरितानां वा स्तोमं समूहं प्रणिनन्तो व्यापादयन्तौ । काविव । सूर्याचन्द्रमसाविव । यथा दिवाकर निशाकरौ तमःस्तोममन्धकारनिकरं मूलादुच्छिन्दतौ शोभां भुवने प्रसिद्धिं लभेते ॥
वनीमिवावनी सूरिशको चङ्क्रमणैः क्रमात् ।
मधुराधाविव मासौ शोभा लम्भयतः स्म तौ ॥ १०४ ॥ ती हीरविजयविजयसेननामानौ सूरिशको आचार्यपर्जन्यौ क्रमादनुक्रमेण चक्रमणैविहरणैः विहारक्रमेण अवनी मेदिनीमण्डलं शोभां श्रियं लम्भयतः स्म प्रापयामासतुः । काविव । मधुराधाविव । यथा मधुश्चैत्रः, तथा राधो वैशाखः । चैत्रे मधुश्चैत्रकश्च वैशाखे राधमाधवी' इति हेम्याम् । एतावता वसन्तर्तुसंबन्धिनौ चैत्रवैशाखमासौ क्रमादनुक्रमतः प्रथमं चैत्रः पत्रपुष्पमञ्जरीकलिकाफलोदयोन्मुखान्कुरुते । ततो वैशाखमासः