________________
९ सर्गः] हीरसौभाग्यम् ।
स साधुसिन्धुरः जयविमलमुनीन्द्रः तैः सूरिप्रहितैर्मुनिपञ्चाननैः सार्धे प्रभु हीरविजयसूरीश्वरं बभाज आगत्य प्रणम्य सेवते स्म । क इव । युवराज इव । यथा सकलजनपदप्रजाचिन्ताकारकतया खापितो नृपकुमारः अनल्पैर्बहुभिः सामन्तैः सीमालभूपालै. रने कमण्डलीकमहीपालैर्वा समं निजं पितरं जनक सेवते ॥
भाविसूरेरभूत्तस्योपाध्यायपदमादितः ।
परमावधिवत्साधोरुदेष्यत्केवलश्रियः ॥ ९४ ॥ भविष्यतीत्येवंशीलो भावी स चासौ सूरिश्च तस्य भविष्यदाचार्यस्य आदितः प्रथमं तस्य जयविमलविदुषः उपाध्यायनाम पदमभूद्धभूव । एतावता आचार्यपदादावुपाध्यायपदं प्रदत्तमित्यर्थः । किंभूतम् । परमावधिवत् । यथा उदेष्यन्ती प्रकटीभविध्यन्ती केवलश्रीः केवलज्ञानलक्ष्मीर्यस्य तादृशस्य साधोः श्रमणस्य परममुत्कृष्टं पृथक्परमाणुज्ञानकृल्लोकमानमलोकेष्वपि लोकप्रमितासंख्येयखण्डावबोधविधायकमवधिज्ञानं भवति । अथ वा प्रादर्भविष्यत्केवलमेकाकारं निखिललोकालोकाकाशप्रकाशकं ज्ञानं यस्य तादृग्विधस्य जिनेशितुः तीर्थंकरस्य आदितः संयमग्रहणप्रथमसमय एव तूर्य चतुर्थ मनःपर्यायसंज्ञं ज्ञानं भवति इति द्वितीयपाठः ॥ ___ महामहैस्ततस्तस्य सूरिः सूरिपदं ददौ ।
जातवेदाः स्फुरज्योतिनिकेतनमणेरिव ॥ ९ ॥ तत उपाध्यायपदप्रदानानन्तरं सूरिहरिविजयप्रभुः महामहैरधिकजायमानोत्सवैस्तस्य जयविमलोपाध्यायस्य सूरिपदमाचार्यपदं ददौ । क इव । जातवेदा इव । यथा जातवेदाः कृशानुनिकेतनमणेर्दीपस्य स्फुरद्देदीप्यमानं ज्योतिस्तेजो दत्ते । अथ वा। क इव । यथा स्नेहप्रियो दीपस्य दशेन्धनस्य तमोपहं भूच्छायभिदुर निजमात्मीयं ज्योतिर्महो विश्राणयति ॥
उज्झित्वा शमिनोऽशेषान्सुरानिव रमा हरिम् ।
तं सूरिमुपगच्छन्ती रेजें सूरिपदेन्दिरा ॥ ९६ ॥ - तं नवं प्रत्यग्रं जयविमलनामानं सूरिमुपगच्छन्ती समायान्ती सूरिपदेन्दिरा आ.
चार्यपदलक्ष्मी रेजे विराजते स्म । किं कृत्वा । उपगच्छन्ती अशेषान् समस्तान . तदभिलाघुकान् परान् शमिनो वाचकप्रज्ञांशप्रमुखान् मुनीनुज्झित्वा संत्यज्य । केव । रमेव । यथा समग्रान् सुरासुरानौज्झ्य हरि नारायणमुपयान्ती मन्दरमन्थानकमथनस. मये क्षीरपाथोधिपाथोवेलासमुत्थितसर्वाङ्गीणलक्ष्मीसमुल्लसलक्ष्मी राजते । किंच 'देवेन श्रुतममृतमथनावसरे सुरासुरकरपरिवर्त्यमानमन्दरमन्थानकनिर्घोषबधिरितसमस्तरोद:कन्दरादिवापि दूरोच्छलितदुग्धतुषारासारतारकितनभसः समुत्पन्नानेककौस्तुभादिवस्तु.
१. 'उदेष्यत्केवलस्येव तुर्य ज्ञानं जिनेशितुः' इति पाठान्तरम्. २. 'प्रदीप इव दीपस्य निजज्योतिस्तमोपहम्' इति पाठान्तरम्..