________________
३९२
काव्यमाला।
एवमालपिता तेन तं सुरी पुनरूचुषी ।
प्रावृषेण्यमिवाम्भोदं नभोन्बुपनितम्बिनी ॥ १२ ॥ तेन हीरविजयसूरिणा एवममुना प्रकारेण आलपिता भाषिता भाविपघराभिधानं पृष्टा सती सुरी निर्जरी पुनर्वितीयवारमूचुषी भाषितवती । जगादेत्यर्थः । केव । नभो.
पनितम्बिनीव नदीह्रदनिपानादिनीरमनीहमानः केवलं नभस आकाशाद्धनाघननिर्मुः कमम्बु पिवतीति नभोम्बुपो वप्पीहस्तस्य नितम्बिनी प्रमदा चातकी तेन जीवनदानादिना जगप्रसिद्धनार्थान्मेघेन गर्जितेन गभीरगर्जारवेणालपिता वादिता सती प्रावृषेण्यं वर्षाकालसंबन्धिनम् । 'प्रावृषेण्यं पयोवाहं विशुदैरावताविव' इति रघुवंशे । तथा प्रावृष एण्यप्प्रत्ययः । इति प्रावृषेण्यनिष्पत्तिः । अम्भोदं जलधरं प्रति ब्रवीति ॥
आस्ते श्रीजयविमलो यस्तेऽन्तेवासिवासवः। . .
स ते दम्यो रथस्येव धुरं पट्टस्य धास्यति ॥ १३ ॥ . हे प्रभो, यस्ते तवान्तेवासिनां शिष्याणां मध्ये वासव इव वासवो मघोनः सदृशः अखिलशिष्यशिखारत्नं श्रिया शोभया युक्तो जयविमल इति नामा वर्तते स जयविम. लप्रज्ञांशः ते तव पदृस्य धुरं धास्यति धारयिष्यति । क इव । दम्य इव । यथा प्रथमक्या गौरथवा प्रौढीभूतो वत्सो वत्सतरः । लोके 'गोधो' इति प्रसिद्धः । दम्यो रथस्य धुरं दधाति । 'गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं विभति' इति रघौ ।।
त्वया विश्राणिता देव विधिना स्वपदेन्दिरा ।
वार्धिना विष्णुनेव श्रीश्चिरमेतेन रंस्यते ॥ १४ ॥ हे देव हे भट्टारक, त्वया प्रभुणा खपदेन्दिरा निजपट्टलक्ष्मीविधिना पूर्वाचार्यैरुक्तकृतप्रकारेण विश्राणिता प्रदत्ता सती एतेन जयविमलप्रज्ञांशेन समं चिरं बहुकालं यावत् रेस्यते क्रीडिष्यति । केव । श्रीरिव । यथा वार्धिना क्षीरनीरनिधिना विधिना वे. दोक्तप्रकारेण विश्राणिता वितीर्णा पाणौ ग्राहिता श्रीनिजनन्दना लक्ष्मीविष्णुना खप्रेयसा साकं चिरं रमते ॥
तं गुणैरप्रतीकाशं त्वद्गुणश्रीः श्रयिष्यति ।
वल्ली विवर्धमानेव स्मयमानमहीरुहम् ॥ १५ ॥ हे सूरिपुरंदर. त्वद्गुणश्रीः तव गुरुपरम्परायाता तपागच्छलक्ष्मीर्गुणैः शमदमार्जवमार्दवज्ञानादिभिरप्रतीकाशमनन्यसामान्यं तं जयविमलं श्रयिष्यति सेविष्यते। केव। वल्लीव। यथा विवर्धमाना प्रावृषेण्यप्रवर्षत्पयोधराभिषेकप्रसभप्रवृद्धि प्राप्नुवती लता मयमानं . विकसितं पल्लवपत्रपुष्पफलकलापकलितं महीरुहं पादपं श्रयते भजते ॥
पट्टधुर्येऽङ्गजे राज्ञा युवराज इवोर्जिते । त्वयास्मिन्निर्मिते कापि भाविनी शासनोन्नतिः ॥ १६ ॥