________________
८ सर्गः]
हीरसौभाग्यम् । न्तलकलापस्य । 'जहास तस्याः कुटिलाः कचच्छटाः' इति नैषधे । छटाशब्देन श्रोणी। 'भटान्तविश्रान्ततुरङ्गमच्छटाः' इत्यपि नैषधे । 'अश्वश्रोणी' इति तदृत्तिः । महीयानतिशयेन महानतिशायी महिमा माहात्म्यं दृश्यते । यस्मात्कारणात् या चिकुरच्छटा प्रतीपान खश्रीप्रतिस्पर्धितया प्रतिकूलीभूतान् चमरान बालव्यजनानि निर्जित्य निजौजसा पराभूय पशुना तिरश्चापि चमरधेन्वापि का । न किंचिदर्थे पशुशब्दात्तिर्ययात्रे अज्ञानेऽपि । तथा 'पशुस्तिर्यक् इति हैम्याम् । तथा नैषधे-'पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः' इति । पार्श्वे पश्चाद्भागे। उपहास्यवाक्यमेतत् । अचीकरत् कारयति स्म ॥ स्पर्धा विधत्ते सुमनःसुकेशीकेशच्छटामिर्यदसौ कलापः । अनौचितीयं तमितीव केकी जहाति कोपादपि पक्षभूतम् ॥ १६०॥ केकी मयूरः । उत्प्रेक्ष्यते इति हेतोः पक्षभूतमपि सहायभूतमपि । 'पक्षः सहायः पिच्छं च,' तथा 'पक्षो मासाथै पिच्छे च सहाये विरोधे। देहाङ्गे राजकुञ्जरे' इत्यनेकार्थः । कलातं शिखण्डकं कोपात्क्रोधातिरेकाजहाति त्यजतीव । इति किम् । यदसौ मम शोभाकारी प. क्षभूतोऽपि मात्सर्यासूयादिदोषनिर्मुक्तं मनो मानसं यस्यास्तादृश्याः सुकेश्याः । केशल क्षणेन कृत्वा सर्वाण्यप्यङ्गलक्षणानि सूचितानि स्त्रियाः । तत्त्वतस्तु शासननायिकायाः केशच्छटाभिः कुन्तलमालिकाभिः सार्ध स्पधी संघर्ष विधत्ते करोति इयमनौचिती व योग्यसा । 'सानौचिती चेतसि नश्चकास्तु' इति नैषधे । एतन्नौचित्यमिति कारणात्त्यागः॥
श्रीस्पर्धया यच्चिकुरान्विजेतुं व्यवस्यमानान्स्वमवेत्य बर्हः । त्रासात्प्रणश्यन्निव नीलकण्ठः पृष्ठे प्रविष्टः शरणाभिलाषी ॥ १६१॥ बर्हः कलापः त्रासात् रात्री आकस्मिकातात् । 'बासस्त्वाकस्मिकं भयम्' इति हैम्याम् । प्रणश्यन् प्रपलायमानः सन् शरणमात्मत्राणमभिलषतीत्येवंशील: नीलकण्ठो महादेवो मयूरश्च । तस्य पृष्ठे प्रविष्ट इव । नीलकण्ठं शरणीचकारेत्यर्थः । किं कृत्वा । श्रिया शोभया लम्या वा या परस्पर्धा संघर्षः तेन त्वा स्वमात्मानं विजेतुं पराभवितुं व्यवस्यमानानुद्यम कुर्वाणान्प्रगल्भमानान्देवीकेशान्कुन्तलानवेत्य ज्ञात्वा ॥ इति केशपाशः ॥
सीमन्तदण्डः सुरपद्मदृष्टरुन्मादयामास मनांसि यूनाम् । सहावरोधैश्चरतः स्मरस्य व्यक्तीभवन्ती पदवी किमेषा ॥ १६२॥ सुरपद्मदृष्टेर्वृन्दारकारविन्दलोचनायाः सीमन्तः केशवा स एव दण्डाकृतित्वाद्दण्डः। द्वाभ्यां कृत्वा यदावध्यन्ते तदा मध्ये केशरहिता दण्डाकृतिर्लक्ष्यते । सैव सीमन्तः 'सईघो' इति लोकप्रसिद्धः । परं स्त्रीणामेव न पुंसाम् । सौराष्ट्रसर्जरादिषु । परं ला. टदेशादिषु श्रूयते। यथा लाटदेशवासिना श्रीहर्षकविना नैषधे समानीतोऽस्ति 'द्विफालबद्वाश्चिकुराः शिरःस्थितम्' इति । द्वाभ्यां फालाभ्यां च संयम्यमाने केशपाशे मध्ये
४९