________________
२६२
काव्यमाला। अम्याः सदृशां श्रियमाश्रयन्ती नास्ति त्रिलोक्यामपि कापि कान्ता । इतीव रेखात्रितयं ततान तत्कण्ठपीटे सरसीजजन्मा ॥ ८६ सरशीजात्कमलाजन्म उत्पत्तिर्यस्य स सरसीजजन्मा विधाता तस्या देव्याः कण्टपीठे गलकन्दले । उत्प्रेक्ष्यते-इदीव हेतो रेखानां नितयं त्रिकं ततान विस्तारयामास । च. कारेत्यर्थः । इति किम् । यदस्याः शासनत्रिदश्याः सदृक्षां साधारणीम् । तुत्यामित्यर्थः । . श्रियं शरीरसौन्दर्यलक्ष्मीमाश्रयन्ती भजन्ती कापि ज्ञाताज्ञाता काचन कान्ता सुलोचना . त्रिलोक्यां वर्गवलिगृहमहीवलयत्रयेऽपि नाकिनागनागराङ्गनासु नास्त्येवेति जगत्रये. ऽपि न विद्यते ॥
कण्ठश्रिया खःकुरविन्ददत्या निर्जीयमानैनिखिलैत्रिरेखैः । रथाङ्गपाणिं प्रति पाञ्चजन्यः पूत्कर्तुकामैः प्रहितः किमेकः ॥ ७ ॥ निखिलत्रिरेखैः समस्तैः शङ्खः पूत्कर्तुकामैः एवं कर्तुमिच्छद्भिः मद्भिः अर्थात्सर्वैः. संभूय रथाङ्गं वरिवारिभिरप्रतिहतं चक्रं पाणौ हस्ते यस्य स रथाङ्गपाणिविष्णुस्तं प्रति एकः पाञ्चजन्यनामा शङ्खः । उत्प्रेक्ष्यते-किं प्रहितः प्रषित इव । किं क्रियमाणैः । निखिलत्रिरेखैर्निजीयमानैः पराभवनपदवीं नीयमानैः हठात्प्राप्यमानैः । कया। स्वकुरविन्ददत्या वर्गस्य कुरविन्दाः पद्मरागमणयः । 'स्वे हि दर्शयति कः परेणथानर्घ्यदन्तकुरविन्दमालिके' इति नैषधे । तद्वदन्ता दशना यस्याः सा । कया कृत्वा । कण्ठश्रिया निजगललक्ष्म्या साधनभूतया ॥
कण्ठीकृतो यजलजस्त्रिदश्यास्तद्वेधसा साधु विधीयते स्म । नैसर्गिकानार्जवमात्मनिष्ठं जयादवाद्यं कथमन्यथायम् ॥ ८॥ वेधसा ब्रह्मणा यजलजस्त्रिरेखः त्रिदश्या देव्याः कण्ठीकृतः कण्ठपीठता प्रापितः । 'ततः प्रियोपात्तरसाधरौष्ठे निवेश्य दध्मौ जल कुमारः' इति रघौ । अहमेवं मन्ये । जगत्सृष्टिकृता तत्साधु सम्यग्विधीयते स्म समीचीनमनुष्ठितम् । अन्यथा अपरप्र. कारेण यत्कण्ठपीठीकरणमन्तरेण अयं शङ्खः आत्मनि खसिमन्विषये निष्ठा स्थितिर्यस्य तादृशं नैसर्गिकं खाभाविकं खोत्पत्तिसमयादेव जातमपर्यवसानस्थायुकमनार्जवं कथं केन प्रकारेण जह्यात्त्यजेत् । यदुक्तम्-'विमलता वचनस्य न गोचरे जनयिता तव शङ्ख महोदधिः । मुदमलं तनुते च तव ध्वनिः किमु ततो निहिता हृदि वक्रता ॥' इति । अपि तु न कयापि विधया नैव मुश्चेत् ॥
यत्कण्ठपीठेन हठादुपात्तां दृष्ट्वात्मभूषामखिलास्त्रिरेखाः । पूत्कुर्वते किं विकलीभवन्तः प्रत्यालयं भैक्षभुजो भुजन्तः ॥ ८९ ॥ अखिलाः समस्तास्त्रिरेखाः शङ्खाः विकलीभवन्तो गृथिला जायमानाः प्रत्यालयं गृहं गृहं प्रति पूर्वते।लोकानां पुरः पूत्कारं कुर्वन्तीत्यर्थः । विकलतामेव दर्शयति-किं.