________________
काव्यमाला।
यया देव्या खयोरात्मीययोर्वक्षोरुहयोरुरोजन्मनोः स्तनयोस्तुश्रिया उच्चत्वल. क्षम्या जितेनाभिभूतेन रोहणभूधरेण रत्नाचलेन पाण्योर्हस्तयोर्नखराणां कामाखुशानां छलेन कपटेन । उत्प्रेक्ष्यते-उदात्तानि महाया॑णि । 'उदात्तनायकोपेता' इति चम्पूकथायाम् । तथा 'उदात्तो महात्मा महायच नायको वृत्तखामी मध्यमणिश्च तेनोपेता युक्ता' इति तट्टिप्पणके । लक्ष्मीपुष्पाणि पद्मरागमणयः दण्डे विजयावसाने दण्डकरणसमये दत्तानि कि विश्राणितानीव । तथा-'अष्टौ हाटककोटयत्रिनवतिर्मुक्ताफलानां . तुलाः पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोद्धराः सिन्धुराः । अश्वानामयुतं मरुयुवतिजिद्वा-. रागनानां शतं दण्डे पाण्ड्यनृपेण ढौकित मिदं वैतालिकस्यापितम् ॥' इति विक्रमार्कदानपत्रे । अत्रापि ढौकितमग्रे दत्तमुक्तम् ॥
खयं विनिर्मापयितुं जयं स्वशोभापराभावुकयन्नखानाम् । राजानमभ्यर्थयते खकान्तमुपान्तयाता किमु तारकाली ॥ ७४ ॥ . उपान्तयाता समीपे समेता तारकाली ताराश्रेणी । उत्प्रेक्ष्यते-खकान्तं निजभतारं राजानं चन्द्रं भूपतिं च किमु अभ्यर्थयते याचतीव । किं कर्तुम् । खस्याः शो. भायाः वैभवस्य परा भावुकानां पराभवनशीलानां यस्या देव्या . नखानां कामाकुशानां निजेनात्मनैव पराभवं निर्मापयितुं कारयितुं हे राजन् त्वं तथास्माकं साहाय्यं कुरु यथा वयं खयं वैरिणो जयामः । 'नखानामुपमानानि रत्नताराप्रसूनानि' इत्यादि का. व्यकल्पलतायाम् ॥ इति पाणिनखाः॥
प्रसूनधन्वा निजदेहदाहे. निध्याय दग्धान्विशिखानशेषान् ।. कामाङ्कशाली कुरुविन्दपुङ्खान्यदङ्गुलीस्तानथ किं चकार ॥ ७ ॥ प्रसूनधन्वा कुसुमकोदण्ड: अथ पश्चात्पुनर्वा यदङ्गुलीर्यस्याः करशाखा एव तान्विशिखान्। किम् । उत्प्रेक्ष्यते-चकार कृतवानिव । 'प्रसूनधन्वा शरसात्करोति माम्' इति नैषधे । किंभूतान् तान् । कामाङ्कुशानां नखानामाली श्रेणी एव कुरुविन्दस्य हिंगुलस्य पुताः । अथ वा कुरुविन्दमणिमयाः पुजाः बाणपश्चात्प्रदेशा येषाम् । चित्ते कुरुष्व कु. रुविन्दसकान्तदन्ति' इति नैषधे । ‘पद्मरागमणिसमानकान्तिकादन्ति' इति तद्वत्तिः । किं कृत्वा । निजस्थात्मनो देहस्य दाहे खशरीरस्य भस्मीभवनसमये अशेषान् समस्तान्पश्चापि विशिखान्बाणान् दग्धान् ज्वलितान् निधाय दृष्ट्वा पश्यति विभावयत्यपि । 'विलोकते वीक्षते गवेषयति निध्यायत्यन्विषति' इति क्रियाकलापे ॥
वने स्वमुद्दध्य शिखासु भूमीरुहां तपोऽतप्यत यन्निरन्नम् । यदङ्गुलीभूयमिव प्रवालैः पचेलिमैस्तैः सुकृतैरवापे ॥ ७६ ॥ वने कानने निकुञ्जमध्ये भूमीरुहां तरूणां शिखासु शाखासु खमात्मानमुद्वध्य अर्व बद्धा प्रवालैः पल्लवैः यनिरनं निराहारं तपः कष्टमतप्यत तप्तमाचरितम् । उत्प्रेक्ष्यतेपचेलिमैः परिपाकं प्राप्तैरुदयावलिकायामागतैस्तपोजनितैः सुकृतैः पुष्पैः कृत्वा य.