________________
८ सर्गः] हीरसौभाग्यम् ।
३५१ त्राणि । यदुकम्-'सा पिच्छइ पिअवयणं जोई पुणनाहि मण्डलं तीसे । पुल्वभवन्तरनेहो कागाइ चुणन्ति तकरम् ॥' इति । ता एव द्विरेफा भ्रमरा यत्र ॥
यदङ्गगेहे निवसन्प्रसूनायुधः सुधाभुक्स्पृहयन्खवल्माम् । अचीकरत्कूपमिवामृतस्य विरञ्चिना पूर्तकृतेव नाभिम् ॥ १२ ॥ प्रसून कुसुममेवायुधं प्रहरणं यस्य । 'पुष्पाण्यस्येषुचापास्त्राणि' इति हैम्याम् । स स्मरः सुधाभुक सुधां पीयूषं भुनक्ति आहारयति इति सुधाशनो देवः खस्यात्मनो वल्भामशनमाहारं स्पृहयन् काइन् सन् । उत्प्रेक्ष्यते-नाभिमाद्देवतातुन्दकूपिकां पूर्तकृ. तेव खनकेनेव विरश्चिना ब्रह्मणा अमृतस्य पीयूषस्य कूपमचीकरत्कारयति स । कि कुर्वन् । स्मरः यदङ्गं यस्याः शरीरं तदेव गेहं सुवर्णसौधं तत्र निवसन्निवासं कुर्वन् ॥ इति नाभिः ॥ यस्यावलमेन विगानितेन पञ्चाननेनानुचिकीर्षयास्य ।
वैमुख्यभाजा विषयाद्विशेषाकि तप्यते भूधरगहरान्तः ॥ १३ ॥ पञ्चाननेन मृगेन्द्रेण भूधरस्य पर्वतस्य गवरान्तर्गुहामध्ये। उत्प्रेक्ष्यते-अस्यावलमस्य मध्यस्य अनुचिकीर्षया अनुकर्तुमिच्छया तप्यते तप इव क्रियते । किंभूतेन पञ्चाननेन । यस्या देवताया वलमेन मध्यप्रदेशेन विजितेन। पुनः किंभूतेन । विशेषाद्विशेषप्रकारेण विषयात् शब्दादिगोचरात् । 'संवत्सरेण रतमेति किलैकवारं सिंहावली द्विरदशूकरमांसभोजी' इति हेमचन्द्रवचनात् । अथ च विषयाजनपदाच्च विमुख: विरक्तेन पराङ्मुखेन च । प्रायः सिंहादयो हि श्वापदा विजनघनगहनसानुमत्कन्दरनिवासिन एव भवन्ति ॥
तपस्यतः शंभुदिधक्षयाधिकनिष्ठया स्पृष्टभुवः स्मरस्य । मध्यं पुरो निर्मितनाभिहोमकुण्डा तपोवेदिरिव कशिष्टा ।। ५४ ॥. अर्थसंगत्या शासनदेव्या मध्यं विभातीति संवन्धः । उत्प्रेक्ष्यते-शंभुदिधक्षया खवत्. शंभोरीश्वरस्यापि दिधक्षया दग्धुमिच्छया भस्मसात्कर्तु कावया तपस्यतः तीव्र तपः कुर्वतः । यतो घोरतपःसाधनमन्तरेण निजाभिलषितसिद्धिर्न स्यात् । तपसि स्थितस्य ऋशिष्टा अतिशयेन कृशा वेदिरिव तपःकरणव्यतिकरोपवेशनवेदिकेव । किंभूता वेदिः । पुरोऽप्रभागे निर्मितं निष्पादितं नाभिरर्थाद्देवतायास्तुन्दकूपिकैव होमार्थ कुण्डं यस्याः । तापसा हि तपः साधयन्तः सन्तः मध्वज्यादि जुह्वति । किंभूतस्य स्मरस्य । अङ्ग्रेर्वामचरणस्य कनिष्टया प्रान्ताङ्गुल्या कृत्वा स्पृष्टा आश्लिष्टा भूर्भूमियैन । 'भुवं यदेकानिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपखिताम्' इति नैषधे । 'एतदेव तपखिनां महत्तपः । यद्वामचरणकनिष्टाङ्गुल्यग्रमात्रेण भुवं स्पृशंस्तपस्यति' इति तद्वत्तिः । यादृक् शरीरावस्थितिक्षेत्रं तादृगेव स्थानं विलोक्यते तत एव कशिष्टेति ॥