________________
८ सर्गः]
हीरसौभाग्यम् ।
मानम् । उताथ वा तस्य सूरेया॑नस्य सूरिमन्त्रजापस्य सिद्धेः फलनिष्पत्तेः । अथ च सिद्धिनान्या देवताया विघ्नराजपाबें सिद्धिबुद्धिनान्यौ देवते अनुचौँ वर्तेते इति लोकप्रसिद्धिः । तस्या अग्रदूती । किं प्रथमशासनहारिकेव ॥ इति सूरिपुरो निशीथे शासनदेवतागमनम् ॥
अथ शासनदेवतावर्णनारम्भःसृष्टिं सिसृक्षोः सुदृशां पुरा यः स्वयंभुवः शिल्पगुरुर्बभूव । विधाय तां बिम्बमिवादसीयशिक्षाकृतेशोऽर्पयति स्म तस्मै ॥ ११ ॥ स शिल्पगुरुः अमूषां सुलोचनानामियमदसीया । 'नासादसीया तिलपुष्पतूणम्' इति नैषधे । सृष्टिः सर्गः । स्त्रीरूपघटनमित्यर्थः । सृष्टिरिति मध्यमपदलोपी समासः । तस्याः सृष्टेः शिक्षणं न पुनर्निर्माणक्रिया तत्कृते तदर्थ बिम्बं मूलरूपं निरूप्य अन्या. नि तद्रूपाणि निर्माप्यन्ते । एतावता शासनदेवतारूपबिम्बे विधाय तस्मै धात्रे अर्प. यति स्म दत्तवान् । यत्तदोर्नित्याभिसंबन्धात् । स कः । सुदृशां चारुचक्षुषां स्त्रीणां हि कटाक्षादिहेतुतया दृष्टिरेव प्रधाना तस्यां च शोभनत्वेन सर्वाङ्गीणशोभनत्वं सुतरामागतमिवेति । तथोक्तम्-'सर्वेन्द्रियाणां नयनं प्रधानम्' इति । तथा-'तदनु पुनर. पाङ्गोत्सङ्गसंचारितानां जयति तरुणयोषिल्लोचनानां विलासः' इति चम्पूकथाद्वितीयश्लोकान्त्यद्विपदी । इति सृष्टिरचनां सिमक्षोः कर्तुमिच्छोः खयंभुवो ब्रह्मणः पुरा पूर्व विज्ञानज्ञानाभ्यासनसमये शैशवे यः कश्चिदज्ञाताश्रुतनामा शिल्पगुरुर्विज्ञानाचार्यः कलाचार्यो वा बभूवासीत् । प्रायो हि कलाकौशल्यगृहगुरुमन्तरेण जगञ्चेतश्चमत्कारि शिल्पं न संगच्छते ॥ - महीवियद्वीक्षणकेलिलोलीभवन्मनाः स्वैरविहारिणीयम् ।
जम्बूह्रदिन्या अधिदेवतेव समीयुषी काञ्चनचारिमश्रीः ॥ १२ ॥ इयं शासनसुरीरूपा । उत्प्रेक्ष्यते-जम्बूहदिन्या जम्बूनामनद्याः । जम्बूद्वी. पसत्कजम्बूवृक्षाः । तेषां जम्बूफलरसैर्जम्बूसरित्प्रवहति । तन्मृत्स्ना च जाम्बूनदं भवति । जम्बूनद्यां भवं जाम्बूनदमिति व्युत्पत्त्या इति कविसमयः । तदेव दर्यते'जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना कृत्नापि सा तव रुचा विजितनि यस्याः । तजाम्बवद्रवभवास्य सुधाविधाम्बुजम्बूसरिद्वहति सीमनि कम्युकण्ठि ॥' इति नैषधे । अधिदेवता अधिष्टायिका देवी समीयुषीव समागतवतोव । किंभूता । मह्या भूमेवियत आकाशस्य च द्वयो नभसोवांक्षणमवलोकनं तदेव केलि: क्रीडा तत्र लोलीभवच्चञ्चलं जायमानं मनश्चेतो यस्याः । अत एव पुनः किंभूता । खैर स्वेच्छया विहरति संचरतीत्येवंशीला । देवा देव्यो हि खैरविहारा भवेयुः । अतोऽपि स्वेच्छया संचारिणी । पुनः किंभूता। काञ्चनत्वेन काञ्चनवद्वा चारिम्णो वपुमनोज्ञत्वस्य श्रीः शोभा यस्याः सा ॥