________________
३३५
८ सर्गः] . हीरसौभाग्यम् । प्राप्तवती मानसादिजलाशयेभ्यः खैरै विलासरसिकायितमानसा समागतवती कलहंसानां राजमरालानां मालाधोरणी पङ्किरिव ॥
श्रीसूरिमनं विजने व्रतीन्द्रो जपन्स गोत्रत्रिदशीमिव स्वाम् । दध्यौ हृदा श्रीजिनशासनस्याधिष्ठायिकां निर्जरनीरंजाक्षीम् ॥ ४ ॥ विजने एकान्ते अपरजनरहितस्थाने श्रिया सर्वशक्तिलक्ष्म्या युकः सूरीणामाचार्याणां मत्रं जपन् ध्यायन् सन् व्रतीन्द्रो हीरविजयसूरिः हृदा मनसा कृत्वा षड्दर्शनेष्वपि सर्वातिशायिन्या श्रिया लक्ष्म्या शोभया वा कलितस्य जिनशासनस्य अधिष्ठायिका प्रत्यक्षसांनिध्यविधायिनी निर्जरनीरजाक्षी नाकिकमललोचनां देवतां दध्यौ ध्यायति स्म । कामिव । खां वकीयां गोत्रत्रिदशीमिव । यथा कश्चित्पुमानिजां कुल• देवतां ध्यानगोचरां कुरुते । 'निपीय तं यस्त्रिदशीभिरर्जितः' इति नैषधे । 'गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम्' इति हैम्याम् ॥ इति सूरेानविधानम् ॥ ... ध्यानानुभावेन ततो निशीथे सूरीशितुः शासनदेवतायाः ।
केतुर्निकेतस्य रयेण वायोरिव क्षणादासनमाचकम्पे ॥५॥ ततो ध्याने जिनशासनाधिष्ठायिकास्मृतिगोचरीकरणानन्तरं सूरीशितुहीरविजयसू. रीश्वरस्य ध्यानानुभावेन प्रणिधानमाहात्म्येन शासनदेवताया निशीथेऽर्धरात्रे आसनमुपवेशनस्य विष्टरम् । 'विष्टरः पीठमासनम्' इति हैम्याम् । आचकम्पे आ सामस्त्येन दोलायमानमासीत्प्रचलति स्म । क इव । केतुरिव । यथा निकेतस्य गृहस्य केतुः वैजयन्ती वायोः पवमानस्य रयेण वेगेन कृत्वा कम्पते चश्चलीभवति ॥ . स्वविष्टरं कम्प्रमवेक्ष्य बिम्बमिवोत्तरङ्गाम्बुधिबिम्बितेन्दोः । .. शोणारविन्दायितमीक्षणेन रोषारुणेन त्रिदशाङ्गनायाः ॥ ६ ॥ :- त्रिदशाङ्गनाया जिनशासनदेवताया रोषेण कोपेन कृत्वा अरुणेन रक्तीभूतेन ईक्ष'णेन लोचनेन । नयनद्वन्द्वेनेत्यर्थः । शोणारविन्दायितं कोकनदमिवाचरितम् । अत्र गभितोमपास्ते । किं कृत्वा । खस्यात्मनः खमात्मीयं विष्टरं सिंहासनमवेक्ष्य विलोक्य । किंभूतं विष्टरम् । कम्प्रं कम्पनशीलं चश्चलीभूतम् । किमिव । बिम्बमिव । यथा उदूर्व गगनचुम्बिनस्तरङ्गाः कल्लोला यस्य एतावता समयखभावेन प्रबलपवनवेगप्रवृद्धो योऽम्बुधिः समुद्रस्तत्र बिम्वितः रात्री जलस्यातिवच्छभावेन संक्रान्तः । 'यद्यपि ख. च्छभावेन दर्शयत्यम्बुधिर्मणीन् । तथापि जानुदन्नोऽयमिति चेतसि मा कृथाः ॥' इति -वचनात् । प्रतिबिम्बितो य इन्दुश्चन्द्रस्तस्य विम्बि प्रतिमाभावं प्राप्तं मण्डलं कम्पते अतिशयेन कम्पनशीलं स्यात् ॥
ध्यानस्थितं शासनदेवता सा निपीय तं ज्ञानदृशा वशीन्द्रम् । . मुदं दधारामृतकुण्डमध्यप्रणीतलीलाप्लवनेव चित्ते ॥ ७ ॥