________________
७ सर्गः] हीरसौभाग्यम् ।
३२९ ज्योत्स्नातनश्चन्द्रिकाकाया पीयूषसंततिरमृतराजी। उत्प्रेक्ष्यते इति विचिन्तयन्ती सती अचलायास्तले मण्डले अवततार उत्तीर्णेव । इति किम् । यथेत्यध्याहारः । यथाहं वर्ग देवलोकं गता संप्राप्ता सती ऋतुभुजां यज्ञांशभोजिनां देवानां तृप्त्यै सौहित्याय बुभुक्षोपशमाय प्रभवामि समर्थो स्यां तद्वत्तथा धरामधिगत्य पृथिवीं संप्राप्य मनुष्याणामप्यनाशनानां नियं सदा तृप्तिकृते समर्थीभवामि ॥
प्रससार महीविहायसोमिहिकादीधितिदीधितिव्रजः ।
युवतेरिव शीतदीधितेरुपसंव्यानममेचकद्युति ॥ ८४ ॥ मिहिकादीधितेहिमकिरणस्य विधोः । 'प्रालेयं मिहिका हिमम् । स्थानीहारस्तुषारच' इति हैम्याम् । दीधितीनां कान्तीनां व्रजो निकरः महीविहायसोभूमीनभसोः प्रससार विस्तरति स्म । द्यावापृथिव्योः समकालं विस्तारं प्राप्त इत्यर्थः । उत्प्रेक्ष्यते-शीतदीधितेश्चन्द्रस्य युवतेस्तरुण्या यामिन्या अमेचकाः श्वेता न मेचका अमेचका उज्ज्वला द्युतिः कान्तिर्यस्य । 'या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता' इति विशेषणाद्वाग्देवतावसनवद्विशदमुपसंव्यानं परिधानवस्त्रमिव । 'गुणशब्दो विरोध्यथै नादिरितरोत्तरः। अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ॥' इति हैम्याम् ॥
वारिराशिरशनाविहायसोः कौमुदीभिरुदरं स्म पूर्यते ।
अन्धकाररिपुनिर्जयोद्भवत्कीर्तिभिः किमु कुमुद्वतीपतेः ॥ ८५ ॥ . कौमुदीभिश्चन्द्रिकाभिर्वारिराशिः समुद्रः स एव रशना मेखला यस्या एतावता स[म मुद्रा मेदिनी । मेखला तु शरीरान्तरेऽवस्थायिनी न पृथग्भवतीति । अतः समुद्रसहिता महीति समेतम्(?) । तथा विहाय आकाशं तयोरुदरं मध्य पूर्यते स्म पूर्णीकियते स्म । व्याप्तमित्यर्थः । उत्प्रेक्ष्यते-कुमुदतीपतेः कैरविणीकान्तस्य विधोः अन्धकार एव रिपुवीन्तशत्रुः । अथ वा रिपुः सूर्यः । “मित्रो ध्वान्तारातिरन्जांशुः' इति हैमीवचनात् । चन्द्रोदये भानुरस्तमीयते । सूर्यः खोदये च चान्द्रमसीं सर्वामपि विभूतिमादत्ते इति परस्परशत्रुतापि । तस्य ध्वान्तस्य सूर्यस्य वा निर्जयात्पराभवादुद्भवन्तीभिः प्रकटाभिर्जायमानाभिः कीर्तिभिः किमु समाज्ञाभिरिव दिवस्पृथिव्या व्याप्ते ॥
भूमीनभोमण्डलमेदुरश्रीज्योत्स्नावपुर्विष्णुपदीप्रवाहैः। नक्तंदिनं जमुपदप्रसत्तेः प्राकाम्यरूपा किमवापि सिद्धिः ॥ ८६ ॥ भूमी पृथिवीपीठं नभोमण्डलं गगनस्थलं तयोर्विषये मेदुरा उपचयप्राचुर्य प्राप्ता श्रीलक्ष्मीः शोभा वा यस्यास्तादृशी ज्योत्स्ना कौमुदी सैव वपुर्गात्रयष्टिर्यस्यास्तादृश्या विष्णुपद्या गङ्गायाः प्रवाहैः प्रसरत्पयःपूरैर्नकं दिन रात्री दिवा च जहोर्नारायणस्य पदमाकाशं चरणश्च तस्य प्रसत्तेः प्रसादनतः । 'प्रसादनं प्रसत्तिः' इति व्युत्पत्त्या सेव
४२