________________
३२२
काव्यमाला।
विहाय:कपालिना नभोनाम्ना योगिना वक्षसि खहृदयस्थले तारा उज्ज्वला केश. चर्मरहितत्वेन केवलं तुम्बिकात्वेन च धवला तारा ज्योतिश्वकं च तद्रूपा । उत्प्रेक्ष्यतेकपालमाला निर्नाथद्रमकमनुजमुण्डली च 'तुम्बिली' इति लोकप्रसिद्धा धृतेव कलितेव । कपालिना कपालधारणं युक्तिमदेव । यतः कपालानि विकचत्वनृमुण्डानि मालात्वेन सन्त्यस्येति कपाली । किं कुर्वता । खर्दण्डो लोके 'खर्दण्डउ' अथ वा पितृपथः इति प्रसिद्धः । गगनान्तराले भ्रमन् किंचित् श्वेतवर्णो दण्डाकारेण दृश्यमानो मार्गाकारेण वा स दण्डो यष्टिस्तं दधता बिभ्रता । पुनः किं कुर्वाणेन । सितादुज्ज्वलवर्णादितरा कृष्णवर्णा श्रीः शोभा यस्य तादृक् तमिस्र ध्वान्तं तदेव वासो वसनं वसानेन परिदधानेन । 'गुणिप्रायाणि वस्त्राणि भूषणानि तव प्रभो । वसानश्च दधानश्च सत्कविरि तिष्ठति ॥' इति भोजप्रबन्धे॥ तथा तवाप्यस्तु यथा त्रियामे निष्कास्यतेऽहं गलहस्तयित्वा । शपन्नितीवाक्षिपदृक्षलक्षाक्षतानहोग्यभिमत्र्य गच्छन् ॥ ११ ॥ गच्छन् परद्वीपं प्रति व्रजन्नहर्दिनमेव योगी त्रियामां प्रत्यक्षिपत्क्षिपति स्म । उत्प्रेश्यते-इत्यमुना प्रकारेण सिद्ध विद्यामन्त्रतन्त्रोपयोगवान् अभिमन्य मन्त्रेण स्थानभ्रंशादिकारकया विद्यया मन्त्रयित्वा जापं दत्त्वा ऋक्षाणां तारकादिज्योतिषां लक्षात्कपटात् लाजानक्षततण्डुलान्वा त्रियामा प्रत्यक्षिपत्क्षिपति स्म । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण त्रियामामात्मप्रवासदायिनी वैरिणीं चन्द्ररमणीं शपन् शापं ददान इव । इति किम् । हे त्रियामे इति संबोधनम्। शात्रवत्वेन चतुर्यामाया अपि त्रियामेति कथनं क्षयकृत्सूचकम् । यथाहं त्वया गलहस्तयित्वा गलेहस्तं 'गलोघो' इति प्रसिद्धः, चपेटां वा दत्त्वा निष्कास्यते लोकमध्यात् रोदःकन्दरमन्दिराद्वा कर्ण्यते तथा तेनैव प्रकारेण गलहस्तचपेटा. दिप्रदानादिना तवापि भवत्या अपि निष्कासनमस्तु स्तोकवेलयैव भवतात् ॥
प्रस्थातुकामेन तमो जिघांसोर्जयाय पूर्वावनिभृद्गतेन । अक्षेपि राज्ञा दशदिक्षु मन्ये शान्त्यै बलिस्तारकतन्दुलालीः ॥ १२ ॥ पूर्वावनिभृद्गतेन उदयाचलरूपराजधानीस्थायुकेन पूर्वाद्रौ स्थितेन वा। राज्ञा चन्द्रेण जिष्णुजगतीभुजा च । उत्प्रेक्ष्यते--शान्त्यै निर्विघ्नतानिर्माणकृते दिक्षु सर्वदिशां प्रदेशेषु तारकाणामेव ज्योतिषामेव तन्दुलानां निस्तुपोकृताक्षतकलमानां माला श्रेणी। तद्रूप इत्यर्थः । बलि: देवदानवादीनां गगनादिदिक्षु क्षेपणीयसिद्धान्नादिवस्तुजातमक्षेपि क्षिप्त इव । राज्ञा किं कर्तुकामेन। तमसां तमसो वा अन्धकारस्य विधुतुदस्य वा जिघांसोर्निजप्रत्यनीकस्य जयाय वशीकरणाथै भूयः पराभवनार्थ वा प्रस्थातुकामेन प्रचलितुमनसा ॥
१. 'निष्कास्यते' इति प्रथमपुरुषप्रयोगश्चिन्त्यः, 'अहम्' इति कर्मणा समानाधिकरण्यात्. 'अहंयुः' इत्यत्रैवाहमो विभक्तिप्रतिरूपकत्वेन वा समाधेयम्.