________________
७ सर्गः हीरसौभाग्यम् ।
३१७ अभ्रे मनासंतमसैः प्रदोषरागान्तरेऽथ प्रकटीबभूवे ।
प्रवालपुञ्जे सयमानकृष्णवल्लीप्ररोहैरिव वार्धिमध्ये ॥ ४३ ॥ अथ संध्यारागभवनानन्तरमभ्रे आकाशे प्रदोषो यामिनीमुखं संध्या तत्य यो रागो रक्तिमा तस्यान्तरे मध्ये मनाक किंचन संतमसैरन्धकारैः प्रकटीवभूवे प्रादुर्भूतम् । कोरेव । स्मयमानकृष्णवल्लीप्ररोहैरिव । यथा वाधिमध्ये परीवारान्तरालभूमौ प्रवालपुले विद्रुमकन्दलवृन्दे विस्मेरकृष्णलतानां 'कालीवेल' इति लोकमध्ये प्रसिद्धानामङ्कुरैः प्रकटीभूयते ॥
विभ्राजिसंध्याभ्रपरम्पराभिरलम्भि भूच्छायभरैविभूतिः ।
स्मेरारुणाम्भोरुहमण्डलीभिभृङ्गैरिवान्तर्मधुपानलीनैः ॥ ४४ ॥ विभ्राजन्त इत्येवंशीलाभिर्विभ्राजिनीभिः शोभनशीलाभिः संध्यारागरतीभूताना. मभ्राणां वदलिकानां परम्पराभिः श्रेणीभिः कत्रीभिर्भूच्छायभरैरन्धकारनिकरैः करणैविभूतिः शोभा अलम्भि संप्राप्ता । काभिरिव । स्मेरारुणाम्भोरुहमण्डलीभिरिव यथा विकचानां कोकनदानां मालिकाभिः अन्तर्विकसितकोशमध्ये मधूनां मकरन्दानां पानार्थमाखादनकृते लोनैरातृप्तिपानरसान्निश्चलीभूतै क्षैर्भमरैः कृत्वा लक्ष्मीः शोभा प्राप्यते॥ ... तमोगणालिङ्गिनभोङ्गणश्रीः संध्याभरागच्छुरिता चकासे । ___ वृन्दारकैः कुङ्कुमगन्धधूलीद्रवैरिवासिच्यत शक्रमार्गः ॥ ४५ ॥
संध्यासमयोद्भूतानामभ्राणां रागै रक्तिमभिदछुरिता व्याप्ता । 'चन्दनच्छुरितं वपुः' इति पाण्डवचरित्रे । तमसो तिमिराणां गणेन समुदायेन आलिङ्गिता चुम्बिता कलिता नभोङ्गणश्रीगंगनतललक्ष्मीश्वकासे शोभते स्म । उत्प्रेक्ष्यते-वृन्दारकैदेंवैः कुङ्कुमैघुसूणरसकलितैर्गन्धधूलीनां जायमृगनाभीनां द्रवैः पङ्कः कृत्वा शक्रमार्गः पुरंदरपदवी गगनमसिच्यत सिक्त इव । 'येनामुना बहुविगाढसुरेश्वराध्व-' इति नैषधे । 'सुरेश्वराध्वा गगनम्' इति तद्वत्तिः ॥
सुधान्धसामध्वनि सांध्यरागोल्लासं विलुप्य प्रसृतं तमोभिः ।
मलीमसाः खावसरं प्रपद्य परोदयं हन्त कुतः सहन्ते ॥ ४६॥ ___ सांध्यरागस्य जगत्वभावात्प्रादुर्भवतः संध्यायां दिनादौ दिनान्ते च द्वे सांध्ये भवतः । अत्र चाधिकारादिनान्तसंध्याया एवेति वाच्यम् । यतोऽप्रेतननिशायां शासनदेवता समेध्यती विवक्ष्यते रागो रक्तिमा तस्योल्लासमाविर्भावं प्रसारं वा विलुप्य निराकृत्य निषिध्य सुधामृतमेवान्धो भोजनं येषां ते सुधान्धसो देवाः । 'खाहावधाक्रतुसुधाभुज आदितेयाः' इति हैमीवचनात् । सुधाशना देवास्तेषामध्वनि मार्गे पथि गगने तमोभिर्भूच्छायभरैः प्रसृतं विस्तृतम् । जगद्व्याप्तमित्यर्थः । युक्तोऽयमर्थः । मलीमसा मलिनाः