________________
३१०
काव्यमाला।
पयोधिपूरे पश्चिमसमुद्रसलिलप्लवे अम्बुजवन्धोः पद्ममुहृदो दिवाकरस्य बिम्बं मण्डलं स्मेरारुणाम्भोरुहवद्विकसितरक्तकमलमिव विभाति । नीरधिनीरोपरि विकच. कोकनदसदृशं दृश्यते इत्यर्थः । किंभूतम् । उत्तुङ्गो गगनाङ्गणालिङ्गी यस्तारङ्गस्तरङ्गाणां समूहस्तारङ्गः। अत्र समूहार्थेऽण् । कल्लोलकलापः । 'वारं वारं तारतरस्वरनिर्जितगङ्गातारङ्गाम्' इति पद्मसुन्दरनिर्मितभारतीस्तवने । तस्य शिखामग्रभागमवलम्बते आश्रयतीति एवं शीलम् । पुनः किंभूतम् । किंजल्कानो कमलकेसराणां लीला विलासस्तद्वदाचरितो रश्मिराशिः करनिकरो यस्य ॥
पूरे समुद्रस्य बभस्ति बिम्बं राजीविनीजीवितनायकस्य ।
पयोधिपल्यङ्कतले शयालोरुल्लासि चक्रं किमु चक्रपाणेः ॥ १९॥ . समुद्रस्य पश्चिमवीचिमालिनः पूरे पयःप्रवे राजीविनीनां पद्मिनीनां जीवितनायकस्य प्राणवल्लभस्य विम्ब मण्डलं बभस्ति भासते । 'वररजनीकर कान्ते चित्राभरणे . निशानभःसदृशे । तव नृप मजनभवने सविता नाभाति परमश्रीः ॥' इति चम्पूकथायाम् । 'तत्र द्वितीयराजार्थे निशानस्तेजस्विभिर्वभस्ति' इति तट्टिप्यन के । उत्प्रेक्ष्यतेपयोधिः समुद्र एव पल्यङ्कः शय्या तस्य तले शयालोः शयनशीलस्य । 'दासाहः पुरुषोत्तमोऽग्धिशयनोपेन्द्रावजेन्द्रानुजौ' इति हैन्याम् । चक्रपाणेर्विष्णोरुल्लासि प्रोल्लसनशीलं चक्रं किमु । विस्फुरत्सुदर्शनं नाम रथाङ्गमिव ।
खण्डेन चण्डद्युतिमण्डलेन न्यमजि पूरे मकराकरस्य ।
सूरेर्महःसाम्यकृतेऽब्धिझम्पासृजा शनैर्निष्पततेव' भीतेः ॥ २० ॥ चण्डद्युतेर्भास्करस्य मण्डलेन खण्डेन शकलेन चतुर्थभागेन कृत्वा मकराकरस्य समुद्रस्य पूरे न्यमजि वैडितम् । मण्डलचतुर्थांशो जलधिमध्ये निमग्न इत्यर्थः । उत्प्रेक्ष्यते-सूरेहीरविजयसूरीन्द्रस्य महसां भूयसां प्रतापानां साम्यकृते तुल्यत्वप्राप्त्यर्थमब्धौ समुद्रे झम्पां पयःसंपातपाटवं सृजति करोति इत्यब्धिझम्पासृट् तेनाकेंण भीतेः खान्ते भयवशात् शनैर्लघु निष्पततेव ॥
अम्भोधिमध्येऽधितबिम्बमम्भोजिनीवरस्य स्फुरति स्म सायम् । .
अतादृशीं प्रेक्ष्य दशां प्रियस्य किमब्धिमज्जद्दिनलक्ष्मिभालम् ॥२१॥ सायं संध्यासमये अम्भोधेः समुद्रस्य मध्ये अम्भोजिनीवरत्य पद्मिनीपतेर्भानोर. धितं भावप्रधाननिर्देशादर्धत्वं जातमस्मिन्नित्यर्धितं बिम्बं मण्डलम् । अर्धमब्धिमध्ये मनम, अर्ध च बहिदृश्यमानं चेत्यर्थः । स्फुरति दीप्यते स्म । उत्प्रेक्ष्यते-प्रियस्य खभर्तुर्भानोरतादृशीं विश्वशोच्यामस्तलक्षणां दशामवस्थां प्रेक्ष्य दृग्गोचरीकृत्य । अर्था
१. भावल्युडन्तनिशानशब्दादर्श आद्यजिति भावः.