________________
३०४
काव्यमाला।
तदा तस्मिन् डीसानगरे हीरविजयसूरेश्चतुर्मासकस्थितिसमये यूनां तरुणजनानां मदनमदमेदुरीभूतानां नवोढा यौवनवती नवपरिणीता वरवर्णिनी सर्वकलाकुशलप्र. धानस्त्रीव प्रावृट् वर्षा मुदे प्रमोदायाजनिष्ट संजाता । वृद्धानां तु शीतवातकर्दमा दिना दुःखदायिन्यत एव यूनामिति पदोपादानम् । किंलक्षणा प्रावृट् वरवर्णिनी च । मिलन्त्यः श्लिष्यन्त्यः भर्ना समागमं कुर्वन्त्यः बलाका बलाकाङ्गना यत्र । 'गर्भाधानक्षणपरिचयानूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः' इति मेघदूतकाव्ये । प्रायो वर्षाकाले बकास्तु वृक्षादिषूपविश्य तिष्ठन्ति । बकाङ्गनास्तानाहारैः पोषयन्त्यत एबाम्बरे भ्राम्यन्ति । तादृशमम्बरमाकाशम् । पक्षे मिलन्त्यः श्रेणीभवन्यः बलाका बलाहकमहिलास्तद्वदुज्वलं नवपाणिग्रहणावसरत्वाद्धवलमम्वरं वसन- . मुद्वहन्ती धारयन्ती । यतः । श्वेतं परिणयवासः स्यात् । पुनः किंभूता । लीलया खभाल वेन, न तु मन्त्राकर्षणादिना, आगतेन अनादिजगनिसर्गेण वर्षितुमागमनेन उद्वेजिता विजयकरणप्रस्थानेषु विघ्नं प्रापिता राजहंसा विजयिराजानो यया । 'विश्रान्तजिष्णुक्ष्मापालयुधि' इति चम्पूकथायाम् । विजयिनो हि. राजानः प्रावृट्समये कुत्राप्यवस्थितिं कुर्वते, शरदि च विजयाय प्रतिष्ठते । अथ वा लीलया वर्षणविलासेन यदागमनं तेनोद्वेजिता जम्बालजालाविलजलावलोकनेनोद्वेगं गमिता अत एव मानसं प्रति प्रस्थातुमुत्सुकीकृता राजहंसा यया । 'प्रोषितकलहंसवयसि' इति चम्पूकथायाम् । 'प्रोषिता मानसं प्रति प्रस्थापिताः कलहंसविहंगमा येन' इति तद्वृत्तौ । पक्षे मन्थरगमनविलासेनावहेलिता राजमराला यया स्त्रिया । पुनः किंभूता। श्यामा सजलदपटलकालिमाकलिता । पक्षे षोडशवार्षिकी । पुनः किंभूता । अतिनम्रा अतिशयेन गुर्वादिषु नमनशीला लघुवृद्धानां विनयपरा । यदुक्तम्-'नमणी पमणी बहुगुणी विहुपखिवंस. विशुद्ध । पुण्यविना नवि पामिइ करिधणुहा घरि भज ॥' इति वचनात् । पक्षे अतिशयेन नम्रा उन्नमय्यागता मेदिनीमण्डलालिगिवईलिका । पुनः किंलक्षणा । पयोधरेभ्यो मेघेभ्य उद्यन्तीभिः प्रकटीभवन्तीभिर्धाराभिर्जलवृष्टिभिरभिरामा । पक्षे पयोधरयोः पीनोच्चकु. चयोरुद्यता उपरिस्फुरता हारेण मुक्ताकलापेन हारिणी मनोज्ञा । पुन: किंलक्षणा । पिहित आवृतोऽर्थात् घनाभ्रमरेणादृश्यीकृत आननस्य मुखस्य तुल्य इन्दुश्चन्द्रो यस्याम् । पक्षे नवपरिणयनलजावशाद्वसनेनाच्छादितो वदनचन्द्रो यया । पुनः किंलक्षणा । सुरायुधमिन्द्रधनुरेव स्त्रीपक्षे शंक्रचापचक्रवद्वका कुटिला भ्रूवल्ली यस्याः । पुन: किंलक्षणा । आत्मयोनि स्मरमुजीवयन्तीव ग्रीष्मसमये तापातिरेकान्मृतप्रायीभूतसदनं पुनर्जीवितं कुर्वतीव । पक्षे विभ्रमविलासैः काममुद्दीपयन्तीव । भर्तुरिति शेषः । वर्षाणां तरुणयोषितामवलोकनात्प्रायो यूनां स्मरः प्रादुर्भवेदिति । पुनः किंभूता । तडितां विद्युता विलासाः स्फुरणानि झंकारा वा यस्याम् । पक्षे तडिद्वद्विलासाश्चञ्चलकेलयो यस्याः शृङ्गारचेष्टितानि वा यस्याः ॥ युग्मम् ॥ इति वर्षागमः ।।