________________
३०२
काव्यमाला। कुलाद्रिवाधिप्रतिनादभेदुरीभविष्णुनिःस्वानितत्र्यनिःखनम् । जिनेश्वरस्येव जना वितेनिरे पुरप्रवेशेऽतिमहं मुनीशितः ॥ १९२ ॥
जना डीसानगरसंघलोकाः जिनेश्वरस्येव तीर्थकर्तुरिव मुनीशितुहरिविजयसूरेः पुरप्रवेशे डीसानगरमध्यसमागमनावसरे अतिशयेन महमुत्सवं वितेनिरे कुर्वन्ति स्म । किंभूतं महम् । कुलाद्रिषु मन्दरहिमाचलकैलासादिकाष्टकुलपर्वतकंदरेषु, तथा वार्धा समुद्रमध्ये प्रतिनादैः प्रतिशब्दैमेंदुरीभविष्णु: पुष्टीभवनशीलः तादृशो निःखानितानां वादितानां तूर्याणां वादित्राणां निःखनो यत्र । अथ वा निःस्वाना राजवाद्यानि । संजातानि एषु लोके 'नीसाण' इति प्रसिद्धास्तादृशां वाद्यानां निर्घोषो महाशब्दो यत्र ॥
सूरिवासवसमागमस्फुरत्प्रीतिपल्लवितचित्तवृत्तिभिः ।
नागरैरमितपृत्कु(रिक्थ)वर्षिभिः स्पर्धयेव धनदो निधीश्वरः ॥१९३॥ अमितं मानातीतं प(रि)क्थं द्रविणं वर्षन्ति याचकानां यधाकामं ददते इत्येवंशीलैर्ना । गरैडींसानगरजनैः सार्धम् । उत्प्रेक्ष्यते-स्पर्धया संह(घ)षणेव निधीश्वरो वेश्रवणो धनं ददातीति धनदोऽभूदिव बभूवानिव । किंभूतैर्नागरैः । सूरिवासवस्य हीरविजयसूरीन्द्रस्य समागमेन समवसरणेन कृत्वा स्फुरन्ती प्रकटीभवन्ती या प्रीतिः प्रमोदातिशयस्तया पल्लविता मेदुरीभूता चित्तवृत्तिर्मनोव्यापारो येषाम् ॥
नृत्यच्चन्द्रकिचक्रमुन्मदनदहप्पीहबालाकुलं - श्रीसूनोरिव यौवराज्यसमयं व्यालोक्य वर्षागमम् । क्रीडछान्तरसामानससरोजन्माकरे हंसव
च्छ्रीसूरीश्वरहीरहीरविजयस्तस्मिन्सुखं तस्थिवान् ॥ १९४ ॥ श्रिया खखगणलक्ष्म्या युक्ता ये सूरीणां खल्पश्रुताध्ययनेन सामान्याचार्याणां मध्ये ईश्वरा व्यवहारिणः साङ्गप्रवचनेष्वधीतिनोऽनूचानास्तेषु हीरो मुकुटमणिर्वज्ररत्नं तत्तुल्यः श्रीहीरविजयनामा सूरिपुरंदरः तस्मिन् डीसानगरे चिन्तानाचान्तहृदयत्वेन निर्विघ्नत्वेन वा सुखसहितं यथा स्यात्तथा तस्थिवान् चतुर्मासीमासीदति स्म । स्थित इत्यर्थः । किं कृत्वा । वर्षागमं मेघागमनसमयं व्यालोक्य समीक्ष्य । किंभूतम् । नृत्यन्ति कान्त केकारवकलितताण्डवं कुर्वाणानि चन्द्र किणां मयूराणां चक्राणि पटलानि यत्र । चन्द्रकं पिच्छ मिति विद्यते येषां ते चन्द्रकिणः । 'मेचकश्चन्द्रकः समौ' इति हैम्याम् । 'सेव्याः संप्रति सान्द्रचन्द्र किकुलैरुत्ताण्डवैर्मण्डिताः' इति चम्पूकथायाम् । पुनः किंभूताः । उत्कृष्टो मदो येषां ते। मदोद्धता इत्यर्थः । नदन्तः शब्दायमानाः नन्दत्यो बप्पीहानां चातकानां बालाः स्त्रियः शिशवो वा । प्रायो विपदि स्त्रीणां शिशूनां च कातर्य स्यात् , अतो बालाशब्दोपादानम् । ताभिस्तैर्वा आकुलं व्याप्तम् । उत्प्रेक्ष्यते-श्रीसू. नोः कन्दर्पस्य यौवराज्यसमयमिव । युवा चासौ राजा च युवराजस्तस्य भावो गौवराज्यं