________________
६ सर्गः] हीरसौभाग्यम् ।
२९५ जहे महेलया निद्रा विनिद्रन्नेत्रपत्रया ।
संगतिौर्जनीयेव सज्जनानां समज्यया ॥ १६४ ॥ विनिद्रती विकाशं प्राप्नुवती नेत्रपत्रे नयनकमलदले यस्यास्तया कमाकान्तया कोडिमदेव्या निद्रा प्रमीला सुप्त्यवस्था जहे त्यक्ता । 'महिला स्यान्महेलया' इति शब्दप्रभेदे । तथा । 'यश्च परमहेलारतोऽप्यपारदारिकः' इति चम्पूकथायाम् । कयेव । समज्ययेव । यथा सजनानां साधूनां समज्यया सभया । 'ब्राह्मीव दौर्जनी संसद्वन्दनी. या समेखला' इति चम्पूकथायाम् । श्रेण्यर्थवाची सभाशब्दः । दुर्जनानामियं दौर्जनीया दुर्जनसंवन्धिनी सभा श्रेणी । 'उडुपरिषदः किं नार्हन्ती निश: किमनौचिती' इति नैषधे परिषच्छब्दः पतयर्थवाची । संगतिर्मिलनम् गोष्टी वा हीयते ॥
कंसारेरिव रुक्मिण्या स खप्नः खपतेः पुरः ।
. तया मुदितयाभाषि भाषितेशोपमेयया ॥ १६५ ॥ तया कोडिमदेव्या स सिंहदर्शनलक्षण: स्वप्नः खपतेः कमाख्यव्यवहारिण: निजभर्तुः पुरोऽग्रे अभाषि कथितः । कयेव । रुक्मिण्येव । यथा रुक्मिनृपभगिन्या खपतेः कंसारेः कृष्णस्याग्रे नक्तदृष्टः स्वप्नोऽभाषि प्रोक्तः । तया रुक्मिण्या च किंलक्षणया । मुदितया हृष्टचितया । पुनः किंभूतया । भाषितेशोपमेयया भाषितेशया खवचनचातुर्या कृत्वा सरखत्या सार्धमुपमीयते उपमातुं योग्येत्यर्थः ।।
स विचार्य विचारज्ञोऽङ्गनामिदमजीगदत् ।
सूनुः सिंह इवाधृष्यो भविता तव भामिनि ॥ १६६ ॥ • स कमानाम व्यवहारी अङ्गनां निजकामिनी कोडिमदेवीं इदमत्रैवानुष्टुमि वक्ष्यमाणमजीगदत्कथयति स्म । किं कृत्वा । विचार्य खखाभाविकमतिपूर्वकबुद्धिविज्ञानेन विमृश्य । सिंहदर्शनलक्षणापूर्वखप्नविचार विधायेत्यर्थः । स व्यवहारी किं विचारज्ञः । आयतौ खपरहितावहोदर्कविमर्शने कुशलः । इदं किम् । हे भामिनि वर्णिनि सिंह इव पञ्चाननवत् परैरधृष्योऽनाकलनीयः । 'अधृष्यश्चाभिगम्यश्च' इति रघुवंशे । तव भवत्याः सूनुर्नन्दनो भविता भविष्यति ॥
गन्धसिन्धुरराजस्य वशवालसगामिनी ।
अन्तर्वली ततः पत्नी महेभ्यस्य बभूवुषी ॥ १६७ ॥ ततः सिंहस्वप्नदर्शनपुत्रप्राप्तिरूपतदर्थश्रवणानन्तरं महेभ्यस्य कमानामव्यवहारिणः पत्नी जाया कोडिमदेवी अन्तर्वनी गुर्विणी गर्भवती बभूवुषी संजायते स्म । किंभूता । अलसं मन्थरमचपलं गच्छतीत्येवंशीला गामिनी। केव । वशेव । यथा गन्धेनोत्कटमदवारिसौरभेणोपलक्षितः । सिन्धुरराजो गजेन्द्रस्तस्य वशा प्रिया हस्तिनी मन्थर जति तत्रापि गर्भमन्तर्वहन्ती सा । 'वशा नार्या वन्ध्यगव्यां