________________
६ सर्गः]
हीरसौभाग्यम् ।
२९३
प्रीत्या प्रीतिनाम्न्या स्मरागनया तस्य कमासाधोः पन्या व्याजात् कोडिमदेवीदम्भात् । उत्प्रेक्ष्यते-अपरमन्यजन्मावतार आददे गृहीतम् । किंभूतया प्रीत्या । समान एक: पतिर्यस्याः सा सपत्नी। 'सपल्यादिषु नित्यं नुक् वाच्यः' इति सपत्नी। तस्या दुःखा. दसातात् त्यक्त उज्झितः कायः शरीरं यया । किं कृत्वा । पतिं स्मरं खकान्तं रत्या रतिविषये रतमत्यासतं दृष्ट्वा विलोक्य । 'श्रेणीद्वयेशयोः कन्ये उपायंस्त स..क्रमात् । वैजयन्ती जयन्ती च रतिप्रीती इव स्मरः ॥ इति रत्नशेखरसूरिकृतप्रतिक्रमसूत्रनों स्मरस्य रतिप्रीतिनान्यौ द्वे पत्यौ ॥
त्यक्त्वावतीर्णा पुरुषं पुराणं स्वमिमां रमाम् ।
विलक्ष्यः प्रेक्ष्य तदुःखान्ममजेवार्णवे जले ॥ १५७ ॥ . अर्थात् श्रीपतिः तदुःखात्तस्याः स्वपत्न्याः लक्ष्म्याः दु:खादसातादतीवाा। उत्प्रेक्ष्यतेआणवे समुद्रसंबन्धिन्यगाधे जले पानीये ममज मनवानिव । किंभूतः । विलक्ष्यः पन्याः परलोकगमनावलोकनाद्विमनायमानः । किं कृला । प्रेक्ष्य प्रविभाव्य । काम् । रमां ल. क्ष्मीम्। किंलक्षणाम् । अवतीर्णा गृहीतावताराम् । काम् । कोडिमदेवीम् । कोडाईरूपामित्यर्थः । 'ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजन:' । ध्रुवमुत्प्रेक्ष्यते-'शतं श. तशः संख्याः अप्सरसः सुराङ्गनाः अवतीर्य यां नगरीमध्यासताश्रयन्ति स्म । परं कः । तत्सखीजनः तस्या दमयन्त्या वयसीरूपो लोकसमुदायः' इति नैषधतद्वृत्ती । किं कृत्वा । पुराणं जीर्ण वृद्ध पुरुषं भर्तारं स्वमात्मानं त्यक्त्वा निरस्य । वृद्धपुरुषनिर्वेदान्निजं विमुच्येत्यर्थः ॥
स्पर्धयेव दिवा दम्भादस्याः स्त्रैणशिरोमणेः।
धृतेतरा पुरा रम्भा चित्तभूभूमिभृत्सभा ॥ १५८ ॥ . पुरा नारदनामनगर्यास्याः कोडिमदेव्या दम्भाद्याजात्। उप्रेक्ष्यते-इतरा अन्या रम्भा अप्सरोविशेषा धृता कलितेव । कया । दिवा दैवलोकेन समं साधं सार्धया संघर्षण असूयया वा । अस्याः किंलक्षणायाः । स्त्रीणां समूहः स्त्रैणं तस्य शिरोमणेचूडामणिसंनिभायाः । किंभूता रम्भा । चित्तभूः कामः स एव भूमिभृत्पार्थिवस्तस्य सभा उपवेष्टुमा. स्थानशाला ॥ इति कोडिमदेवी ॥ ____ अमन्दानन्दसंदोहमेदुरौ तौ वधूवरौ ।
गमयांचक्रतुः कालं केलतीश्रीसुताविव ॥ १५९ ॥ तौ पूर्वव्यावर्णितखरूपी वधूवरौ कोडिमदेवीकमाह्नव्यवहारिणौ कालं सुखगृइवाससं. बन्धिनं गमयांचक्रतुरतिचक्रमतुः । काविव । केलतीश्रीसुताविव । यथा केलती रतिः । 'केलतीमदनयोरुपाश्रये' इति नैषधे । 'केलती रतिः' इति तद्वृत्तौ । श्रीसुतः कामः । विविधविलासैरनेहसं गमयतः स्म । किंभूतौ । अमन्दा अकुण्ठाः प्रत्यहं वर्धमाना ये आनन्दास्तेषां संदोहो नानात्वं तेन मेदुरौ पुष्टौ ॥