________________
२९०
काव्यमाला। ऋषभनने-'चरणलक्ष्मिकरग्रहणोत्सवे' इति । उत्प्रेक्ष्यते-शुचिचन्द्रौ सूर्याचन्द्रमसो । 'हारः शुचीनी गमनाजाध्वगा' इति हैम्यां रविनामानि । मुरवैरिणो विष्णोश्चरणं पदं अनिशं निरन्तरं किमु उपचेरतु: सेवेते स्म ।।
प्रविभाव्य भवेन भस्मितं स्मरमेतन्निखिलानुजीविनः ।
किमु यत्र समेत्य चक्रिरे वसतिं पौरपरम्परोपधेः ॥ १४५ ॥ एतस्य स्मरण निखिलाः समस्ता अप्यनुजीविनः सेवका: यत्र नारदपुर्या समेल्यागत्य । उत्प्रेक्ष्यते-पुरे भवाः पौराः नागरिकजनाः तेषां परम्पराः श्रेणयः तासामुपधेः कपटात् वसातें निवासं चक्रिरे कृतवन्तः । किमु किं कृत्वा । भवेन शंभुना स्वधैर्यलोपोद्भूतकोपानलेन भस्मितं ज्वालितावशेषीकृतं भस्म करोतीति भस्मयति भस्म्यते स्मेति भस्मितस्तम् । 'तत्करोति तदाचष्टे' इति मिः ज्यन्तत्वा(न्ता)त्तक् । स्मरं खखा. मिनं मनोभवं प्रविभाव्य दृग्गोचरीकृत्य ॥ __ कुतुकाबहुरूपिणं स्मरं हृदि निश्चित्य रतिर्युवभ्रमात् ।
खयमप्यकरोदिदंमिता निजमूर्तीरिव यद्वधूपधेः ॥ १४६ ॥ रतिः शृङ्गारयोनिसीमन्तिनी खयमात्मनापि । उत्प्रेक्ष्यते-यद्वधूपधेर्नारदनामनगगरीसुन्दरीदम्भात् । इदंमिताः स्मररूपप्रमाणा यावन्ति स्मररूपाणि तावन्निजमूती. रात्मीयकायान् किमु अकरोत् कृतवतीव । किं कृत्वा । युवभ्रमानारदनगरीतरुणजन. भ्रान्त्या कुतुकात् कौतूहलात् खकान्तं स्मरं बहुरूपिणं अनेकानि रूपाणि सन्त्यस्येत्येवं. विधं हृदि मनसि निश्चित्य निधाय निश्चयेनावधार्य यावन्ति रूमाणि खभळ स्मरेण कौतुकात्क्रीडाथै कृतानि, रत्यापि तेन समं रमणार्थ. तावन्त्यात्मीयानि रूपाणि निर्मितानीत्यर्थः । एतावता स्मररूपा युवानः, रतिरूपाश्च युवत्यः सन्तीत्यर्थः ॥ इति नारदपुरीवर्णनम् ॥
मुरवैरिपुरीव माधवोऽजनि तत्रोदयसिंहभूधनः ।
धरणी रमणं प्रणीय यं शुशुभे सूरमिवारविन्दिनी ॥ १४७ ॥ तत्र नारदपुर्या उदयसिंहनामा भूधनो भूमीपतिरजनि संजातः । क इव । माधव इव । यथा यथा मुरनानो दैत्यस्य वैरी नारायणस्तस्य पूर्नगरी तस्यां द्वारिकायां पुर्या श्रीपतिर्नाम भूपतिः संजायते स्म । तथा धरणी मेदपाटमण्डलमेदिनी ये उदयसिंहराणकं रमणं भर्तारं प्रणीय कृत्वा शुशुभे शोभते स्म । केव । अरविन्दिनीव । यथा कमलिनी सूरं सूर्य स्खपति प्रणीय शोभितवती ।।
युवतीव युवानमङ्गजान्कलधौतप्रमुखान्खनीव्रजान् ।
पृथिवी पृथिवीपुरंदरं यमवाप्य प्रमदादजीजनत् ॥ १४८ ॥ पृथिवी मेदपाटदेशावनी प्रमदादानन्दाद्यं पृथिवीपुरंदरं उदयसिंहराणकमवाप्य