________________
.६ सर्गः) हीरसौभाग्यम् ।
२८७ वदान्यताया दानशीलतायाः श्रिया शोभया आधिक्येन वा सुराणां देवानां अचला: पर्वताः पञ्च मेरवः तथा द्रुमा वृक्षाः पञ्च कल्पतरवः विजिताः पराभूताः सन्तः सहवासच्छलतः एकत्र निवसनकपटतः । उत्प्रेक्ष्यते-तद्विजयाय सूरिपराभवनार्थ मन्त्रणं मिथ आलोचं किमु वितन्वते कुर्वन्तीव ॥ इति हीरविजयसूरिगुणाः ॥
अधिपौ निखिलक्षमाभृतां सुरसेव्यौ कलधौतदीधिती । हिमहेमगिरी नु जंगमौ मुनिचन्द्रौ भुवि तौ विजहतुः ॥ १३४ ॥ तौ मुनिचन्द्रौ विजयदानसूरि-हीरविजयसूरीन्द्रौ भुवि पृथ्वीपीठे विजहतुः विहार चक्रतुः । किंभूतौ । निखिलाः समस्ताः क्षान्तिधराः शान्तिरसशालिनः साधवः तेषामधिपो स्वामिनी । पुनः किंभूतौ । सुरेदेवैः सेव्यौ उपासनीयौ । पुनः किंभूतौ । कलधौतं काञ्चनं तद्दीधिती शरीरकान्ती ययोस्ती । नु इति वितकें । जंगमौ संचरन्ती हिमहेमगिरी हिमाचलसुराचलाविव । किंभूतौ । क्षमाधराणां पर्वतानां नाथौ । 'हिमालयो नाम नगाधिराजः' इति कुमारसंभवनामकाव्ये । तथा 'आरोहतु क्षितिधराधिपतिं सुमेरुम्' इति सूक्तावल्याम् । तथा देवनिषेवनीयौ । 'कलधौतं रूप्यसुवर्णयोः' इत्यनेकार्थः । कलधौते इव रूप्यसुवर्णे इव कान्ती शोभा रुची शोभा वा ययोस्ती ॥
“अथ भावडसूनुसूरिराण्मुदिरै दुरिते नभस्तले ।
इव मानस इष्टमानसः कृतवान्सूरतिवन्दिरे स्थितिम् ॥ १३५ ॥ अथ हीरविजयसूरेनन्दिभवनानन्तर कदाचित् कस्मिन्नपि संवत्सरे मुदिरैः प्रावृषे. ण्यपयोदै#दुरिते पुष्टे कृते निभृते नभस्तले गगनमण्डले सति । वर्षाकाले इत्यर्थः । भावड इति नाम्नो व्यवहारिणः सूनुर्नन्दनः स एव सूरिराट् एतावता विजयदानसूरिभूमिमघवा सूरतिनाम्नि वन्दिरे स्थलजलमार्गागमनस्थाननगरे स्थितिं चतुर्मासिका. स्थानलक्षणां चक्रे कृतवान् । क इव । इष्टमानस इव । यथा राजहंसो वर्षासमये मा. नसनानि सरसि वसतिं कुरुते । 'नृपमानसमिष्टमानसः' इति नैषधे । इष्टमानसो हंस इति तद्वृत्तौ ॥ .... विलसत्यथ मेदपाटकाभिधदेशो वसुधाविशेषकः । .
निखिलेष्वपि मण्डलेषु यः प्रमुखोऽङ्गावयवेषु वक्रवत् ॥ १३६ ॥ अथ विजयसेनसूरेजन्मदीक्षावसरः अथापरवर्णनप्रारम्भे मेदपाट इत्यभिधा नाम यस्य तादृशो देशो विलसति शोभते । किंभूतः । वसुधायाः पृथिव्याः विशेषकः अर्थाक्षोणीलक्ष्म्यास्तिलकः यो जनपदः निखिलेषु मण्डलेषु देशेषु प्रमुखः प्रकृष्टः सर्वधातुखनीस्थानत्वेन प्रशस्यः । किंवत् । वक्रवत् । यथा समप्रेष्वगावयवेषु वक्र वदनं प्रमुखं चतुरिन्द्रियवसतित्वेन प्रवरम् । वकं पुनपुंसके ॥