________________
२८२
काव्यमाला।
कसितकुसमः कृत्वा सुरभीकृतं वासितं मुगन्धं विहितं भूतलं महीमण्डलं याभ्याम् । उत्प्रेक्ष्यते-मधुमाधवौ चैत्रवैशाखमासाविव ।।
द्युसदामिव मेदिनीरुहौ जगतीजंगमतानुसङ्गिनौ ।
स्म विभूषयतः क्रमेण तौ विहरन्तावणहिल्लपत्तनम् ॥ ११५ ॥ क्रमेण विहारपरिपाट्या ती विजयदानहीरविजयसूरीन्द्रौ अणहिल्लनाम पत्तनं विभूषयतः स्म अलंचक्रतुः । किं कुर्वन्तौ। उत्प्रेक्ष्यते-द्युसदां देवानां मेदिनीरुही पादपौ . कल्पवृक्षाविव । किंभूतौ । जगत्यां भूमिपीठे जंगमतायाः संचरणशीलत्वस्य अनुसङ्गः सङ्गोऽस्त्यनयोस्तौ ॥
श्रवणधुमणी मणीव तौ मुनिमुक्तावलिमध्यशालिनौ ।
पुरि तत्र तमोनिशुम्भनौ गणलक्ष्मी मदयांबभूवतुः ॥ ११६ ॥ . तत्र पुरि पत्तननगरे तौ विजयदानहीरविजयनामानौ श्रमणद्युमणी मुनिमार्तण्डौ। . सुरीन्द्रावित्यर्थः।गणलक्ष्मी तपागच्छश्रियं मदयांबभूवतुः । शृङ्गारकलितां कुर्वाते स्मेत्यर्थः। । काविव । मणीव । नायकरत्ने इव । मणीवादिवर्जमिति द्विवचनेऽपि संधिः स्यात् । यथा मणीव दंपतीव रोदसीव । 'मणीव नीलोत्तरलौ विरेजंतुः' इति नैषधेऽपि । किंभूतौ । मुनयः साधव एव मुक्तावलिमौक्तिकहारस्तस्य मध्ये शालेते इत्येवंशीली । पुनः किंभूतौ । तमसामज्ञानान्धकाराणां निशुम्भनौ व्यापादकौ । नायकमणी अपि स्त्रियं समदां सृजतः मुक्तावलिमध्यस्थायिनी तमोनिहन्तृकौ च ॥ इति द्वयोरपि सूरीन्द्रयोः पत्तने पादावधारणम् ॥ .
अथ तत्र समथेनामभृद्भणशाली भवति स्म भूतिमान् । सचिवो यवनस्य भूभुजो मतिवार्धिश्चणकाङ्गजन्मवत् ॥ ११७ ॥ अथ पत्तनागमनानन्तरं तत्राणहिलपत्तने समर्थ इति नाम बिभतीति समर्थनामभृत् भणशाली वक्षस्कारव्यापारकरिणां कश्चित् संज्ञाविशेषः भवति स्माभवत् । एतावता समरथभणशालीतिनामा । किंभूतः । सचिवः प्रधानः । कस्य । भूभुजः पत्तनाधीशस्य सेरखानस्य । किंभूतस्य । यवनस्य 'पठाण' इति नाम म्लेच्छजातीयस्य । पुनः किंभूतः । भूतिमान् हस्तितुरगादिलक्ष्मीकलितः । पुनः किंभूतः । मतिवाधिः बुद्धिसमुद्रः । किंवत् । चणकाङ्गजन्मवत् । यथा चणकनामा द्विजविशेषस्तस्याङ्गजन्मा पुत्रश्चाणक्यो धीनिधिरभूत् ॥
उपचक्रमिरे महामहा अमुनाचार्यपदस्य नन्दये ।
शिवशैवलिनीवरोद्वहोपयमार्थ प्रथमोत्सवा इव ॥ ११८ ॥ अमुना समर्थभणशालीसचिवेन आचार्यपदस्य नन्दये नन्दिकारापरणार्थ महामहा अतिशयिन उत्सवा उपचक्रमिरे प्रारब्धाः । उत्प्रेक्ष्यन्ते-शिवमे(ए)व मुक्तिरूपो यः