________________
काव्यमाला।
लासेषु क्रीडासु.लालसाः साभिलाषास्तादृशा भ्रमरीभूता मधुकरा इवाचरिता वसुंधराधवाः राजानो यस्य राजसेव्यो भावीत्यर्थः ॥
अयमेव हि हीरवाचकोऽस्त्युचितः सूरिपदस्य नापरः ।
धरणीधवसूनुरेव यद्वसुधाधीशपदस्य नेतरः ॥ ९२ ॥ हे प्रभो, हि निश्चितं अयमेव एष हीरहर्षवाचकेन्द्र एव सूरिपदस्याचार्यपदस्थाप.. नाया उचितो योग्योऽस्ति । परं नापरः नान्यः शिष्यः । यद्यस्मात्कारणाद्वसुधाधीशपदस्य राज्यस्योचितो धरणीधवस्य भूमीविभवस्य राज्ञः सूनुः राजपुत्रः एव परं नेतर. जातीयः हीनकुलीनः ॥ ..
प्रणिगद्य पुरो गुरोरिदं प्रमदेनापि विनम्य तत्पदम् ।
त्रिदशी क्षणतस्तिरोदधे स्तनयित्वा स्तनयित्नुपतिवत् ॥ ९३ ॥ त्रिदशी शासनदेवता । 'निपीय तं यस्त्रिदशीभिरर्जितः' इति नैषधे । क्षणतः क्षणमात्रात् तत्कालमेव तिरोदधे अदृश्या बभूव । किं कृत्वा । गुरोः सूरेः पुरोऽग्रे इदं प्रागुक्तं प्रणिगद्य कथयित्वा । अपि पुन: प्रमदेन हर्षेण तत्पदं. गुरुचरणं विनम्य विशेषेण पञ्चाङ्गभूस्पर्शनादिना नत्वा अदृश्यीभूता। किंवत् । स्तनयित्नुपतिवद्यथा मेघमाला स्तनयित्वा गर्जित्वा विनम्योनतीभूयार्थाद्वायत्वा तिरोधत्ते ॥ इति विजयदानसूरिपुरोध्यानप्रत्यक्षीकृतशासनदेवताप्रोक्ताचार्यपदोचितकथनम् ॥
स तदीयगिरं निपीय तां शितिवल्लीमिव हेमकन्दलः ।
मुदमन्तरनुत्तरां दधद्गमयामास दिनानि कानिचित् ॥ ९४ ॥ स सूरिः अर्थाद्धयानस्थः एव कानिचिद्दिनानि कियत्प्रमाणान् वासरान् गमयामासातिकामति स्म । किं कुर्वन् । अन्तश्चित्तमध्ये अनुत्तरामनन्यसामान्यां मुदं हर्ष दधद् धारयन् । क इव । हेमकन्दल इव । यथा विद्रुमः अन्तरा खमध्ये शितिवल्ली कृष्णलतां 'कालीवेली' इति प्रसिद्धां धत्ते । किं कृत्वा । तदीयां शासन देवतासंवन्धिनी गिरं वाणी निपीय पीत्वात्यादरेण निशम्य ॥
अथ साधुसुधाशनाधिपः प्रणिधानं परिपूर्य सूर्यरुक् ।
शशभृच्छरदभ्रकादिव प्रणिधानास्पदतो विनिर्ययौ ॥ ९५ ॥ अथ शासनदेवताप्रत्यक्षागमनध्यानसंपूर्णीभवनानन्तरं साधूनां मुनीनां मध्ये सुधाममृतं अनन्तीति अशनं भोजनं येषां वा ते सुधाशनाः देवाः तेषामधिपः खामी इन्द्रः एतावता विजयदानसूरिपुरंदरः प्रणिधानस्य ध्यानस्यास्पदं स्थानं ततो वि. निर्ययौ वहिराजगाम । क इव । शशभृदिव । यथा चन्द्रः शरदभ्रकात् शरत्कालसं. बन्धिनोऽभ्रकान्मेघान्मेघवर्धकाद्वा निर्गच्छति । किं कृत्वा । प्रणिधानं सूरिमन्त्रस्य