________________
२७२
काव्यमाला।
र्षकाणापार्श्वनाथेन समेत्य वरकाणापुरादागत्य शोभितेऽलंकृते । केनेव । सुहृदेव । यथा मित्रेणागत्य मित्रमन्दिरं भूष्यते । कस्यां पुर्याम् । नारदपुरि पूर्वोक्तायां नारदपुर्याम् । उत्प्रेक्षते-अनुत्तरैरसाधारणेविंभवैः संपद्भिः कृत्वा हरेरिन्द्रस्य नारायणस्य वा पुरः अमरावत्या द्वारिकाया वा सख्यां वयस्यामिव । कदाजनि । कुलशैला अष्टौ (८), अभ्रमाकाशम् (.), रसास्तिक्तादयः षट् (६), आत्मा एकः (१), एतन्मिते वत्सरे हायने विक्रमार्कावनीन्द्रादष्टाधिकषोडशशते (१६०८) । कस्मिन्वासरे । तपसो माघमासस्य । 'माघस्तपा' इति हैम्याम् । सिताया उज्वलायाः पञ्चम्या दिने ॥ संवत् १६०८ वर्षे पण्डितहीरहर्षगणेचिकपदस्थापना ॥
विबुधावथ राजपूर्वको विमलो धर्मयुतश्च सागरः ।
सचिवाविव वाचकेश्वरौ कृतवान्सूरिमहीपुरंदरः ॥ ७७ ॥ . अथ पुनः सूरिमहीपुरंदरो विजयदानसूरिराजः विबुधौ पण्डितपदधारिणौ । प्रज्ञाशावित्यर्थः । एको राज इदं पदं पूर्व यस्य स राजपूर्वकः तादृशो विमल: च पुन: धर्म इति नाम्ना युतः सहितः सागरः एतावता राजविमलधर्मसागरनामानी विवुधौ वाचके: श्वरौ उपाध्यायमुख्यौ कृतवान् । काविव । सचिवाविव । यथा महीमहेन्द्रः कौचिद्योग्यो प्रधानौ विदधाति ॥
श्रियमाश्रयते स्म वाचकत्रितयी सा श्रमणावनीशिंतुः । . प्रतिबोधयितुं जगत्रयीमिव मूर्तित्रितयी समुद्यता ॥ ७८ ॥ श्रमणावनीशितुः विजयदानसूरिभूमीपतेः सा पूर्वोक्ता वाचकानामुपाध्यायानां त्रितयी श्रियं शोभामाश्रयते स्म शुशुभे । उत्प्रेक्षते-जगत्रितयीं त्रैलोक्यं प्रतिबोधयितुं धर्मे स्थापयितुं सूरेर्मुनीन्द्रस्य मूर्तित्रितयीव समुद्यता । तिस्रो मूर्तय इव प्रकटीभूताः॥
विहरन्सह वाचकेन्दुना शिवपुर्या समवासरद्गुरुः ।
वसुभूतिसुतेन संगतौ भगवानराजगृहे यथान्तिमः ॥ ७९ ॥ वाचकेन्दुना प्रक्रमात् हीरहर्षउपाध्यायविधुना सह विहरन् महीमण्डले ग्रानानुग्राम सुखं सुखेन विहारं कुर्वन् गुरुर्विजयदानसूरिः शिवपुर्यो श्रीरोहिण्यां सीरोहानामनगरे समवासरत् समवसृतः । समागत इत्यर्थः । क इव । भगवानिव यथान्तिमश्चरमो भगवांस्तीर्थकृत् श्रीमन् महावीर देवः वसुभूतिनानो द्विजस्य सूतेन पुत्रेण गौतमस्वामिना पंगतः सहितो राजगृहे समवसरति स्म ॥
त्रिदिवोजयिनी पुरीं तदाजनि दूदाबनृपो विभूषयन् ।
सुखयञ्जनतां वदान्यतां कलयन्विक्रमभानुमानिव ॥ ८० ॥ तदा तस्मिन्नवसरे श्रीविजयदानहीरहर्षकाचककलितश्रीविजयदानसूरिपादावधा. रणसमये दूदा इति आह्वा अभिधानं यस्य तादृशो नृपो राजा अजनि संजातः । दवस.