________________
६ सर्गः]
हीरसौभाग्यम् ।
यथा स्यात्तथा स्वगुरोः श्रीविजयदानसूरेः सविधे समीपे गमनायोपगन्तुमुत्सुकमुत्कण्ठितमाशयं परिणाम मनी वा अधित दधार । किंभूतः । अर्जितः वायत्तीकृतः शास्त्राण्येव वैभवः संपत्तियेन । क इव । सार्थेश इव । यथा उपार्जित बहुविभवः सार्थनाथः खगुरोः पितुः पार्श्वे गन्तुमुत्कण्ठमना भवेत् ॥
अथ दक्षिणदेशतो महाव्रतभृन्मूर्छितमत्स्यलाञ्छनः ।
मलयानिलवत्प्रचेलिवान्यशसा सौरभयन्भुवस्तलम् ॥ ६७ ॥ अथ वगुरुसमीपगमनोत्सुकाशयानन्तरं पठितानन्तरं वा दक्षिणनामा देशो जनपदस्ततः हीरहर्षगणिः प्रचेलिवान् प्रतिष्टते स्म । किंभूतः । महावताने पञ्च प्राणातिपातविरमणादीनि व्रतानि बिभतीति । अत एव पुनः किंभूतः । मूर्छितो मूर्छा चैतन्य. रोधं निधनावस्थां च नीतो मत्स्यलाञ्छनः स्मरो येन । महाव्रतीश्वरोऽपि एवंविधः स्मरनः। पुनः किंभूतः । यशसा स्वकीर्त्या कृत्वा भुवस्तलं मेदिनीमण्डलं सौरभयन् सुगन्धीकुर्वन् धवलयन् । किंवत् प्रचेलिवान् । मलयानिलवद् यथा दक्षिणदेशो मलयाचलप्रदेशः । 'मलय आषाढो दक्षिणाचलः' इति हेम्याम् । तस्मान्मलयानिलो दक्षिणपवनः प्रचलति । 'कष्टं भो दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः' इति भोजप्रबन्धे । सोऽपि किंभूतः । मूर्छितो वृद्धि नीतो मन्मथो येन। 'मूर्छन् वृद्धिमूर्छनयोः' अयं धातुः। भुवो मध्यमपि सुगन्धयति च ॥
मरुतामिव पद्धतीः पुरीषकन्यामिथुनाजराजिनी । मकरान्वितमीनशालिनीः सरितः साजबलाहकाः पुनः ॥ ६८ ॥ वसतीरिव वल्गुविष्टराः सकुरङ्गाः शशिमण्डलीरिव । स्फुरदप्सरसो यथा दिवः पदवीलचितवान्मुनीश्वरः ॥ ६९ ॥
. (युग्मम्) - मुनीश्वरो हीरहर्षगणिः पुरीनगरी चितवान् अतिचक्राम । किंभूताः पुरी: । वृषा वृषभा तथा कन्याः कुमारिकाः मिथुनानि क्रीडासक्तानां यूनां पशूनां पक्षिणां वा युगलानि स्त्रीपुंसलक्षणानि अजाइछागा हरिहरविरश्चिप्रतिमा वा । 'अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे' इत्यनेकार्थः । ते राजन्ते इत्येवंशीलाः । का इव । मरुतां देवानां पवनानां वा पद्धतीर्मार्गानिव। देववीथी: किंभूताः । वृषकन्यामिथुनमेपनामानो राशयः तैः शोभन्ते इत्येवंशीलाः । पुनर्यः सरितो नदीरुल्लचितवान् । किंभूताः । मकरा जलयादांसि तैरन्विता युक्ताः, तथा मीना मत्स्यास्तै: शालन्ते शोभन्ते इत्येवंशीला अपि । पुनः किंभूताः । सहाजैः कमलेः, तथा बलाहकैर्वकैवर्तन्ते यास्ताः । अपि वायुवीथीरिव । किंभूताः । मकरराशिकलिताः मीनराशिना शालन्ते । सहाब्जेन चन्द्रमसा तथा बलाहकमें घेर्वर्तन्ते याः । 'गगनवीथीमिव सिंहराशिराजितां उत्पतङ्गामुत्क्षिप्तवृश्रि.