________________
२६७
६ सर्गः] हीरसौभाग्यम् ।
विधिना वचसामधीश्वरी किमुताकारि वृहस्पतिः क्षितेः ।
निखिलागमपारगाहिनं तमुदीक्ष्येदमतकि तार्किकैः ॥ ६१ ॥ निखिलानां समस्तानां जैनशैवादीनामागमानां शास्त्राणां पारमन्तं गच्छतीत्येवंशीलं तं हीरहर्षगणिमुदीश्य दृष्ट्वा तर्के विचारे प्रमाणशास्त्रे वा चतुरास्तार्किकास्तैरिदमत्रैव व. श्यमाणमतर्कि विचारितम् । इदं किम् । स्वर्ग वाग्वादिनी बृहस्पती वर्तते विधिना ब्रह्मणा क्षितेः पृथिव्या इयं वचसामधीश्वरी सरखती अकारि ऋता, उताथवा भूमेरयं दहस्पतिः सुरगुरुरकारि निर्मित इव ॥ इति हीरहर्षगर्द्विजपण्डितपार्श्वे पठनवर्णनम् ॥
भवति स्म विचक्षणः क्षणादथ सामुद्रिकवत्स लक्षणे।
अपि काव्यविशेषवित्तया विजितः काव्य इवाभवन्नरामः ॥ १२ ॥ - तत्पठितसर्वशास्त्रकथारम्भाधिकारे स होरपगणिर्लक्षणे शब्दशास्त्र । जातिवाचिवादेकवचनम् । अटसु व्याकरणेषु ऐन्द-चान्द्र-काशि(श)-कृष्ण(न)-आपिशल-शाकटायनपाणिनीय अमर-चान्द्र-जैनेन्द्ररूपेषु । अथवा 'ब्राह्ममीशानमैन्दं च प्राजापत्यं वृहस्प. तिम् । त्वाष्ट्रमापिशलं चैव पाणिनीयमथाटमम् ॥ इत्यष्टसु महाव्याकरणेषु । अथ वा अष्टादशसु महाव्याकरणेषु । 'ऐन्द्रपाणिनि जैनेन्द्र शाकटायनवामने । चान्दं सरस्वतीकण्ठाभरणं वुद्धिसागरः ।। विश्रान्तविद्याभरणं भीमसेनकलापकम् । मुष्टिव्याकरणं शैवगोडं नन्दिजयोत्पलम् । सारम्वतं सिद्ध हैमं जयहमं तथापरम् । हाते व्याकरणं सर्वशब्दप्राभृतिसंभवम् ॥' इत्येवंरूपेषु । इति नाममु लक्षणग्रन्थेष्वित्यर्थः । विचक्षणवतुरो भवति स्म । कथम् । श्रणात्स्वल्पकालात् । किंवत् । सामुद्रिकवद्यथा समुद्रेण पण्डितेन प्रोक्तं सामुद्रं तद्वेत्तीति तत्र चतुरो वा सामुद्रिक: लक्षणे नरनारीणां करचरणरेखाद्याकारशरीरस्थमपीतिलकादिविशेषे निपुणः । अपि पुनः काव्यानां रघु-कुमारसंभव मेघदूतचम्पू-कादम्बरी-माघ-पद्मानन्द-नैषधादीनां विशेपरित्तया रहस्यानां ज्ञातृत्वेनेलपि व्याख्येयम् ॥
पदमस्य हृदि व्यतन्तनीदनिशं ज्योतिरिवाभ्रवर्त्मनि ।
नरिनृत्यति नर्तकीव धीरपि तकांगमरङ्गवेश्मनि ॥ ६३ ॥ ज्योतिःशास्त्रमस्य हीरहर्षगणे दि दृदयं पदं स्थानं व्यतन्तनी द्वितनोति म । चकारे. त्यर्थः । कथम् । अनिशं निरन्तरम् । कमिकिमिव । अभ्रवर्मनि ज्योतिरिव । यथा मेघमार्गे गगने ज्योतिर्ग्रहनक्षत्रतारकादि सदा पदं कुरुते । 'नक्षत्रं तारका ताराज्यो. तिषी भमुडु ग्रहः' इति हैम्याम् । अपि पुनरस्य धीबुद्धिलागमः प्रमाणशास्त्रम् । 'आग, मस्त्वागतौ शास्त्रे' इत्यनेकार्थः । स एव रङ्गवेइम नाद कस्थानकमान्दरं तत्र नरीनृत्यति अति गयेन नृत्यं कुरुते। केव । नर्तकीव । यथा ताण्डवकारिका रङ्गवेमनि नृत्यं