SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। धादीधितिमण्डलीयम्' इति । कैः । जलकेलिषु मलिलकीडामु गलद्भिजलसंगमात् द्र. वीभूय निप्पनद्भिः । विलेपनीकृतैरङ्गरागतां प्रापितंगांशीर्षश्चन्दनद्रवैस्तथा विलोचनानां नेत्राणामअन: कजल: । कृत्वा चन्दनद्रवानुषङ्गात्सलिलानामौज्ज्वल्यं तथा कुत्रचिल्लाञ्छनस्थाने कजलकालिमा जायते इति शशाङ्कसादृश्यम् ॥ इति देवगिरिनगराङ्गनाः ॥ पुरि तत्र निजामसाहिनाजनि राज्ञा रघुसूनुनीतिना। तदुपात्तदिशा महविना विदधे येन यमोऽपि दण्डभृत् ॥ ३५ ॥ तत्र तस्यां पुरि देवगिरिनगर्यो निजामसाहिरिति नाम यस्य तादृशेन राज्ञा नृपेण अजनि जज्ञे । किंभूतः । रघुसूनुः रामचन्द्रस्तद्वन्नीतिायो यस्य । येन महविना प्रबलप्रतापवता निजामसाहिना यमः सूरसूतोऽपि दण्डं राजदेयांशं वेत्रयष्टिं वा विभीति दण्डभृत् विदधे । दण्डदाता प्रतीहारो वा कृत इत्यर्थः । किंभूतेन येन । तस्य यमस्य उपात्ता गृहीता खायत्तीकृता दिग्दक्षिणा हरियेन । 'यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरो कसूनुः' इति हैम्याम् ॥ समरे निहतारिनिष्पतद्रुधिराबासवपानकातया । यदसिच्छलतः स्फुटीकृता रसनेवाम्बुजबन्धुसूनुना ॥ ३६ ॥ यस्य निजामसाहेरसिः खड्गलता तस्य छलतः कपटात् । उत्प्रेक्ष्यते-अम्बुजानां प. मानां वन्धुर्मित्रं सूर्यस्तस्य सूनुना पुत्रेण यमेन रसना जिवेव प्रकटीकृता। कया । समरे अर्थानिजामसाहेवैरिभिः समं संग्रामे निहता व्यापादिता येऽरयो वैरिवीरास्तेषां निष्प. तन्ति शरीरानिःसरन्ति यानि रुधिराणि तान्येवाह्वा नाम यस्य तादृश आसवः सीधुदे. शविशेषजा मदिरा राजादीनां पानयोग्या न विकलताकृत् । सोऽधुना द्वीपबन्दिरादौ 'सरसक' इत्युच्यते । तस्य पानं तस्य काया वाञ्छयेव ॥ महसां निवहे महीशितुर्विपिनेऽपि स्फुरितेऽतिदुःसहे । . दवधीविधुरास्तदाश्रयाः प्रतिपक्षाः सरसीर्जगाहिरे ॥ ३७ ॥ महीशितुनिजामसाहेगेहसां प्रताणनां निवहे समूहे । ‘स राशिरासीन्महसाम्' इति नैषधे । महसां भूयसः प्रतापानामिति तदृत्तिः । विपिने अरण्येऽपि स्फुरिते प्रकटीभूते सति तदेव विपिनमाश्रयः स्थानं येषामरण्वस्थायिनः प्रतिपक्षास्तवैरिणः दवधीविधुरा वने दावानलोऽयं लग्न इति बुद्ध्या व्याकुलीभवन्तः सन्तः । देव त्वद्भुजदण्डदर्पगरिमोगीर्णप्रतापानलज्वालापक्रिमकीर्तिपारदघटीविस्फोटिता विन्दवः' इति खण्डप्रशस्तौ । प्रता. पस्य वहिरूपत्वम् । सरसीमहातटाकान् महत्सरः सरसीजंगाहिरे अवगाहितवन्तः । खप्रज्वलनभयेन सरसीषु प्रविष्टा इत्यर्थः । किंभूते निवहे । अतिशयेन दुःखेन सह्यते इत्यतिदुःसहे सोढुमशक्ये । इयमत्र गर्भितोत्प्रेक्षा ॥ अहिता अमुना पराहता वनवासाः शबरा इवाभवन् । अबला इव वातवेपितादपि पत्राद्विपिनेऽपि बिभ्यिरे ॥ ३८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy