________________
२५६
काव्यमाला।
खामिता धरणेन्द्रभावस्तस्य वैभवः संपद्येन सः । एकस्य नागलोकस्यैश्वर्य प्राप्तोऽपि पुनर्भुवनद्वय्याः क्षोणीमण्डलवर्गलोकद्वयस्येशतां खामित्वं स्पृहयन् । एतावता समं त्रैलोक्येशतां कान्निवेत्यर्थः ॥ इत्यन्तरिक्षपार्श्वनाथः ॥
करहेटकपार्श्वनायको दिशि यत्रास्ति पुनः प्रभाववान् ।
न जहाति कदापि यत्पदं किमु तस्यैव समीहया फणी ॥ २० ॥ पुनरन्यतीर्थाविर्भावने। यत्र दक्षिणस्यां दिशि स जगद्विख्यातः करहेटकनामनि पुरे करहेटक इति नाम यस्य तादृशः पार्श्वनायकः । एतावता 'करहेडो' पार्श्वनाथः इत्यर्थः। ' अस्ति जागर्ति। किंभूतः । प्रभाववान् अतिमाहात्म्यकलितः । यत्पदं यस्य करहेटकपार्श्वनाथस्य चरणं कदापि कस्मिन्नपि समये फणी नागेन्द्रो न जहाति न मुश्चति । उत्प्रे. . क्ष्यते-तस्यैव तस्य प्रभोः पदं स्थितिस्थानं मोक्षलक्षणं तीर्थ करपदवीं वा तस्यैव समीहया किमु स्पृहयेव ॥
विभवैः सह माधवादयः प्रतिवर्ष यमुपेत्य भेजिरे ।
किमिदं गदितुं तनूमतां मरुतामप्ययमेव देवता ॥२१॥ माधवादयः कृष्णप्रमुखाः सर्वे देवाः प्रतिवर्ष संवत्सरं संवत्सरं प्रति दीपालिकादिवसे इत्यर्थादवसेयम् । विभवैः सह खखभक्तलोकपात्रवाद्यादिभिः ऋद्धिभिः साधै उपेत्य समीपे समेत्य श्रीकरहेटकाख्यपार्श्वनाथं भेजिरे । आत्मीयात्मीयसेवककृतनृत्यगीतवाद्यमानवादित्रादिभक्तिभिः सिषेविरे । अद्याप्येवमेव दृश्यमानमस्तीति । उत्प्रेक्ष्यते--तनूमतां कलिकालजातसर्वजगजन्तूनामिदमत्रैव वक्ष्यमाणं गदितुं किमु कथयितुमिव । इदं किम्। तदेवाह-यदयं श्रीपार्श्वनाथो मरुतामस्मत्प्रमुखाणां समग्रगीर्वाणानां देवता अ. स्माकमप्ययमेवाराध्यस्ततो देवाधिदेवः स्वयमेव नास्मत्प्रमुखाः सुरा इति ॥ इति श्रीकरहेटकपार्श्वनाथः ॥
इह जीवत आदिमप्रभोरपि सोपारकनामपत्तने ।
प्रतिमा प्रतिभासते सतां वृषकोशः प्रकटः किमार्षभेः ॥ २२ ॥ अपि पुनरिह दक्षिणस्यां जीवतः प्राणान् धारयतः । विद्यमानस्येत्यर्थः । आदिमप्रभोः प्रथमतीर्थकरस्य ऋषभदेवस्य । जीवत्स्वामिन इत्यर्थः । प्रतिमा मूर्तिरार्षभर्भरतचक्रिणः प्रकटः स्पष्टो जगजननयननीयमानो वृषकोशः पुण्यभाण्डागारः किमु सतां सजनानां प्रतिभासते हृदये स्फुरति । कस्मिन् । सोपारक इति नाम यस्य तादृशे पत्तने पुटभेदने ॥ इति जीवत्स्वामी ॥
दिशि बिभ्रति यत्र भूभृतः श्रियमभ्रंकषशृङ्गसङ्गिनः ।
किमु शकभयद्रुताः श्रिताः कुलशैला जिनमन्तरिक्षकम् ॥ २३ ॥ यत्र दक्षिणस्यां दिशि भूभृतोऽनेके शैलाः श्रियं शोभा बिभ्रति धारयन्ति । किं