________________
काव्यमाला।
षड्ग्रहेषुशशिसंख्यमितेऽब्दे कार्तिकस्य च तिथौ द्विकसंख्ये । यन्निरस्तभवनिःश्वसितार्चिधूमवर्तिभिरिवाविशदास्ये ॥ २० ॥ संयमं विजयदानमुनीन्दोराददे सह परैः स कुमारः ।
पद्मिनीप्रियतमात्प्रविकाशं पुण्डरीकमिव पङ्कजपुजैः ॥ २०९॥ स हीरकुमारः परैरन्यैरमीपालकुमारप्रमुखैरपरकुमारैः सार्धे श्रीविजयदाननाम्रो मुनीन्दोः साधुसुधांशोः सूरीन्द्रात्स काशात् संयमं चारित्रमाददे जगृहे । किमिव । पुण्डरीकमिव । यथा सिताम्भोजं पङ्कजपुजैरन्यकमलकलापैः समं पद्मिनीप्रियतमात्सूर्यात् सकाशात्प्रविकाशं विकस्वरतामादत्ते । पण्डरीकशब्दः प्राधान्यरव्यापकः । 'परिसवरपुण्डरीआणम इति शकस्तववचनात् । कस्मिन सति । षडरसमिता संख्या. पहा आदित्याद्या इदानींतनलोकप्रसिद्धा नव, इषवः स्मरस्य बाणाः पञ्च, शशी चन्द्र एकः, एषां संख्यया प्रमाणेन मिते मानीकृते अब्दे वर्षे सति । च पुनः . कस्मिन् सति । कार्तिकस्य बाहुलस्य । कार्तिकमासस्येत्यर्थः । द्विकसंख्ये द्विकसंख्या प्रमाणं यस्य तादृशे एतावता द्वितीयानाम्नि तिथी । तिथिशब्दः पुंस्त्रियोः । 'प्रनिस्तिथ्यशनीमणिशृणिः' इति लिङ्गानुशासने । तिथौ किंभूते । अविशदास्ये न विद्यते विशदमुज्ज्वलमास्यं मुखं प्रारम्भो वा यस्य । कृष्णद्वितीयायां प्रथमाश्चतस्रो घटिका निशा अन्धकारेण श्यामाः स्युः । उत्प्रेक्ष्यते-येन हीरकुमारेण निरस्तो ध्वस्तोऽभिभूतो यो भवः संसारस्तस्य निःश्वसितानि दुःखप्राग्भारोद्भूतनिःश्वासास्तान्येवा षि अत्युष्णत्वाद्यस्तेषां धूमवर्तयो धूमलेखास्ताभिः । 'उष्णीकृतमुखे इव निःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः' इति चम्पूकथायाम् । एतावता विक्रमार्कात् षण्णवत्यधिके पश्चदशशते वर्षाणामतिकान्ते १५९६ कार्तिकबहुलद्वितीयायां हीरकुमारो दीक्षां जग्राहेति तात्पर्यार्थः । संवत् १५९६ वर्षे गुर्जरमण्डलानुसारेण कार्तिकवदि देवमासानुसारेण तु मार्गशीर्षासितद्वितीयायां तिथौ हीरकुमारदीक्षा इत्युक्तम् ॥
संयमश्रियमवाप्य कुमारः साधिकं शरदमिन्दुरिवाभात् ।
सोऽप्यनेन सुषमां श्रयते स्मार्थेन वागिव पुरीव नृपेण ॥ २१०॥ स कुमारः संयमश्रियं चारित्रलक्ष्मीमवाप्यासाद्य । सहाधिकतया वर्तते यत्तत्साधिकमिति क्रियाविशेषणम् । आभात बभासे । अथ वा स कुमारः अधिकं यथा स्यात्तथा बभौ । क इव । इन्दुरिव । यथा चन्द्रः शरदं घनात्ययं संप्राप्याधिकं शोभते । पाठान्तरार्थो यथा-स कुमारः संयमश्रियमुपेत्यागत्य । प्राप्येत्यर्थः । अधिक आभाद्भाति स्म । क इव । अत्रिनेत्रज इव । यथा अत्रिर्नामा मुनिविशेषस्तस्य नेत्रं नयनं तस्माजायत इत्यत्रिनेत्रजश्चन्द्रो यथा । यथा रघुवंशे-'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः' इति ।
१. 'संयमश्रियमुपेत्य स चित्रामत्रिनेत्रज इवाधिकमाभात्' इति पाठान्तरम्.