________________
५ सर्गः
हीरसौभाग्यम् ।
२२३
त्मीयम् । पुनः किंभूतम् । अप्रभु असमर्थम् । किं कर्तुम् । पातुम् । सादरावलोकनं पानमुच्यते । सम्यक्तया निरीक्षितुम् । काम् । कुमारविभूषां हीराशशोः शरीर. शोभाम् ॥ ___ राजतः श्रुतिपुटे धृतमेकं कुण्डलं च मुखमुत्सुक़ितायाः।
भास्करामृतकराविव पर्वाप्यन्तरेण मिलितौ स्फुटमेतौ ॥ १६४ ॥ उत्सुकितायाः कुमारं प्रेक्षितुमुत्कण्ठितायाः कस्याश्चित् श्रुतिपुटे कर्णपालौ धृतं स्थापितमेकमत्यौत्सुक्यादेकस्मिन्नेव कर्ण एकं कुण्डलं क्षिप्तं राभस्यानान्यदित्यर्थः । तच्च पुनर्वदनं तस्या एव मुखं द्वे राजतः शुशुभाते। उत्प्रेक्ष्यते-पर्वामावास्यामन्तरेणापि । 'पञ्चदश्यौ यज्ञकाली पक्षान्तौ पर्वणी अपि' इति हैमीवचनात् । पूर्णिमामावस्योः पर्वेति संज्ञा । अमावास्यां विनापि स्फुटं प्रकटं यथा स्यात्तथा मिलितो संगती एकत्र भूतो एतौ कुण्डलमुखौ भास्करामृतकरी सूर्याचन्द्रमसाविव । अमावास्यायां हि सूर्यचन्द्री एकत्र मिलतः । 'दर्शः सूर्येन्दुसंगमः' इति हैम्याम् ॥
तद्दिदृक्षुरपराञ्जनयष्ट्यानञ्ज सव्यनयनं न तदन्यत् ।
वामतां भजति यः शितिमैव स्यात्तदाननमितीव विचिन्त्य॥१६॥ तं कुमार दिदृक्षुष्टुमिच्छुस्तद्दिदृक्षुः । 'तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम' इति नैषधे । अपरा पूर्वोक्ताभ्यः अन्या काचित्कामिनी अञ्जनयष्टया कजलश. लाकया कृत्वा सव्यं वामं नयनम् । 'वाम शरीरेऽङ्ग सव्यमपसव्यं तु दक्षिणम्' इति है. म्याम् । चक्षुः आनन्न । तदन्यत्तस्मात्सव्यादन्यदपरमपसव्यं नयनं दक्षिणं नेति निषेधे। राभस्यान्नानक्ति स्म । 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' रुधादिर्धातुः । तेनानतीति रूपम् । परोक्षायामानन्जेति । उत्प्रेक्ष्यते इति विचिन्त्य वितर्का । इति किम् । 'यः वामता सव्यत्वमथ च प्रतिकूलभावं भजति आश्रयति तदानने तस्य वदने एव नि. श्चितं शितिमा श्यामतैव स्यात्' इति ॥
काचनातिरभसान्मृगनाभीवारिणाव्यलिखदेककपोलम् ।
मन्मुखं जितशशी श्रयतेऽसौ गण्डमूर्तिरिति किं व विवक्षुः॥१६६॥ • काचन मृगाक्षी मृगस्याक्षिणी इवाक्षिणी यस्याः सा मृगाक्षी । 'वैयधिकरण्ये बहुव्रीही मध्यमपदलोपश्च' इति सूत्रेण एकाक्षिशब्दलोपः । सूत्रोदाहरणं यथा-कुमुदस्य गन्ध इव गन्धो यस्याः सा कुमुदगन्धिः । अत्रैकगन्धशब्दलोपः इति सारस्वते । हरिणनयना अतिरभसात्कुमारविलोकनयाल्सुक्यान्मृगनाभीवारिणा कस्तूरिकाद्रवेण कृत्वा एकं कपोलं निजगण्डस्थलं व्यलिखत् । पत्रवल्लीकलितं कृतवती । चित्रयति स्मेत्यर्थः । गोरे हि कपोलमण्डले मृगनाभिमण्डनमतीव शोभते । उत्प्रेक्ष्यते-इति किं विवक्षुलीकानां पुरस्तादमुना प्रकारेण वक्ता मिच्छरिव । इति किम् । यदसौ.गण्डमूर्तिः कपोलकाय. जितः खशोभातिशयेनाभिभूतः शशी चन्द्रः मन्मुखं मम वदनं श्रयते सेवत इति ।।