________________
५ सर्गः] हीरसौभाग्यम् ।
२२९ मागधा मङ्गलपाटका अस्य कुमारस्याप्रतः प्रोच्चकैरतिशयेनोच्चखरेण मधुरा मिष्टाः श्रवणसुखकारिण्यो मङ्गलवाचः कल्याणशंसिनीर्वाणीः उदचरन् उच्चरन्ति स्म । उत्प्रेक्ष्यते--एनं महं कुमारदीक्षोत्सवं दर्शयितुं दिङ्महेन्द्र निवहं लोकपालमण्डलम् । 'आखण्डलो दण्डधरः शिखावान् पतिः प्रतीच्याः इति दिङ्महेन्द्राः' इति नैषधे । इह पत्तनभूमी आह्वयन्त आकारयन्त इव । किम् इवार्थे ॥
गायनैरयमगायि समेतैः स्वर्गृहात्किमिह तुम्बुरुवर्गः। · अभ्यषिच्यत सुधाप्यवसीये वेणुभिः श्रवसि वैणविकौघैः ॥१४९॥ अयं हीरकुमारो गायनैर्गानकर्तृभिर्जनैः अगायि गानगोचरीकृतः । उत्प्रेक्ष्यतेखर्ग्रहाद्देवलोकरूपसद्मनः सकाशादिह भूलोके पत्तने समेतैस्तुम्बुरुवर्गः देवगायनाना समुदायरिक अपि पुनर्वैणविकौघैर्वशवादकवृन्दैवेणुभिर्वशैः कृत्वा अदसीये कुमारसंब. न्धिनि श्रवसि कर्णे सुधा पीयूषमभ्यषिच्यत सिक्ता ॥
घोषणास्य यशसामिव भेरीभाकृतिळरचि कैश्चन मार्गे । किंनरालिरिव वैणिकपतिसंमदात्तमुपवीणयति स्म ॥ १५० ॥ कैश्चन भेरीवादकैर्मार्गे पथि भेरीणां वादिनविशेषाणां दुन्दुभीनां वा भाकृतिर्भावारध्वनिर्व्यरचि चक्रे । उत्प्रेक्ष्यते-अस्य कुमारस्य यशसा कीतीनो घोषणा पटहवाद. नमिव । पुनर्वैणिकानां वीणावादकानां पतिः श्रेणिः संमदात् हर्षात् तं हीरकुमारमुपवीणयति स्म वीणया गायति स्म । 'उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः' इति रघौ । किमिव । किंनरालिरिव यथा किंपुरुषमालिका वीणया कृत्वा गायति गानं कुरुते ॥ : साङ्गजे प्रबलमोहमहीन्द्रे प्रापिते पितृपतेरतिथित्वम् ।
यस्य चञ्चुपुटचञ्चुररावा मङ्गलध्वनितमः किमुदीर्णाः ॥ १५१ ॥ चधुपुटास्तालाः कांस्यतालाः वाद्यविशेषास्तेषां चक्षुराः मनोज्ञा रावाः शब्दा उदीर्णाः प्रकटीकृताः । ताला वादिता इत्यर्थः । अर्थान्मार्गे तालवादकैः । उत्प्रेक्ष्यते'. यस्य कुमारस्य मङ्गलध्वनितमः मङ्गलशब्दा इवोदीर्णाः । कस्मिन्सति । सहागजेन स्मरेण
पुत्रेण च वर्तते यस्तादृशे मोहनामति महीन्द्रे राजनि पितृपतेर्यमस्य अतिथित्वं प्राघुणलं प्रापिते नीते सति । हते इत्यर्थः । 'यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिः' इति हैम्याम् ॥
ताण्डवं व्यरचि वारवधूभिस्तत्पुरः किमु सुपर्ववधूभिः ।
तथ्यवत्पथिमिथः पृथु मिथ्यायुद्धमुद्धतनरैर्निरमायि ॥ १५२॥ तस्य कुमारस्य पुरः पुरस्ताद्वारवधूभिः पणाङ्गनारूपपात्रैस्ताण्डवं नृत्यं व्यरचि विर