________________
५ सगेः हीरसौभाग्यम् :
२२१ रागसगिरदनच्छदराजत्तस्मितं दशनी पतिमिश्रम् । • पल्लवोदरविहारिहिमाम्भोविभ्रमं किमु जिघृक्षति लक्ष्म्या ॥११९॥
रागस्य नागवल्लीदलाखादनजनितरक्ततायाः सङ्गोऽस्त्यस्य तादृक् यो रदनच्छद ओटस्तत्र राजद्दीप्यमानं यत्तस्मितं प्रमोदमेदुरतया ईषन्मानं कुम्मरस्य हसितं तत्कर्तृपदं लक्ष्म्या खशोभया महा वा : उत्प्रेक्ष्यते-पल्लवोदरे प्रवालमध्ये विहरति एवंशीलं हिमाम्भस्तुहिनजलं तस्य विभ्रमं श्रियं विलासं वा किमु जिघृक्षति ग्रहीतुमिच्छतीव । किंभूतम् । तस्मितं दशनानां दन्तानां दीधित्या कान्त्या मिश्रं करम्बितम् ॥
रज्यते स्म दशनप्रकरणामुष्य कुण्डलिपुरंदरबाहोः ।
रागिणी सविधगां च रसज्ञां प्रेक्ष्य कैर्न ध्रियते ह्यनुरागः॥१२०॥ __ अमुष्यं कुमारस्य दशनप्रकरेण दन्तवृन्देन रज्यते स्म रक्तीभूतम् । सरागीभूयते । बालानां दन्ता हि यावकपुस्तिकया रज्यते स्म स्त्रीणां चेति लोकस्य व्यवस्था । किंभूतस्य अमुष्य । कुण्डलिनां भोगिनां पुरंदरो वासवः शेषनागेन्द्र स्तद्वद्दी! बाहू भुजौ. यस्य । यद्रक्तीभूतं तद्युक्तमेव । तदेव दर्शयति-हि यस्मात्कारणात्सविधगां पार्श्ववर्तिनी समीपस्थायुकां रागिणी रागो रक्तिमा अनुरागोऽन्तरणस्नेहश्च तेन कलितां रागवती तथा रसानास्वादान् । तिक्तः कटकषायाम्ललवणमधुराख्यान , अथ वा शृङ्गारहास्यकरुणारौद्रवीरभयानकबीभत्साद्भुतशान्तनामकानवप्रमाणान् रसान् जानातीति रसज्ञा तां प्रेक्ष्य दृष्ट्वा । कैः । पुंभिः अनुरागो न ध्रियते, अपि तु विविधरसेषु निपुणां रागवती पार्श्वस्थायिनी कामिनीं विलोक्य सर्वैः कामुकै रागो ध्रियत एव । तत्त्वतस्तु रसज्ञा जिह्वा ।
संयमाध्यवसितिप्रथमानप्रावृषेण्यजलवाहघटायाः ।
बिन्दुवृन्दमुदियाय किमेतत्कण्ठपीठकृतमौक्तिकहारः ॥ १२१ ॥ एतस्य कुमारस्य कण्ठपीठे गलकन्दले कृतः स्थापितः । परिहित इत्यर्थः । मौक्तिकहारो मुक्तालता। स उत्प्रेक्ष्यते-बिन्दुवृन्दं कणनिकर इवोदियाय प्रकटीभूतम् । कस्याः। संयमस्य चारित्रस्य या अध्यवसितिरध्यवसाय: परिणामः सैव प्रथमाना विस्तरन्ती प्रावृषेण्या वर्षाकालसंवन्धिनी जलवाहानां वर्षणोन्मुखमेघानां घटा माला तस्याः ॥
एतदीयवदनामृतभासा स्पर्धयेव सह शीतलभासा । ____ नूततारकततिर्धियते स्मामुक्तमौक्तिकलताकपटेन ॥ १२२ ॥ . एतदीयेन हीरकुमारसंबन्धिना वदनामृतभासा वक्र विधुना नूता नवीना तारकततिज्योतिर्मण्डला ध्रियते स्म बिभरांबभूवे। केन । आमुक्ता कण्ठपीठे स्थापिता परिहिता या मौक्तिकलता मुक्काकलाप: स्थूलमुक्ताफलहारः तस्य कपटेन छलेन । उत्प्रेक्ष्यते-शीतलभासा गगनाङ्गणस्थायुकखाभाविकचन्द्रेण सह साध स्पर्धया संघरेण ईर्ष्णयेव धृता इत्यर्थः॥