________________
२१०
काव्यमाला।
रूपद्वयं स्यात् । 'उडुपरिषदः किं नाहन्ती निशः किमनौचिती' इति नैषधे । यद्यस्मात्कारणात्तवाङ्गे भवतः शरीरे शैशवं बालभावः स्फुरति दीप्यते। बाल्यावस्थायां हि संयमग्रहणमनुचितं शिशुत्वेनायोग्यत्वात् । कस्येव । योबुरिव । यथा भटस्यापटुतायां सत्या. मसामध्ये सति आहवे संग्रामे अनौचिती । 'योद्धारस्तु भटा योधाः' इति हैम्याम् । तेन हेतुना हे वत्स, त्वं कियती: कियत्प्रमाणाः शरदो वर्षाणि तिष्ठ गृहे स्थितिं कुरु प्रतीक्षख ।खसीध एव वैराग्यवान् वासं विधेहि ॥ इति विमलायास्तृतीयवार वाक्यम्॥
शैशवेऽपि मदमोहमहेभान्सिहशाव इव हिंसितुमीशः ।
तत्समादिश ममास्य निदेशं तामिदं तदनु सोऽपि जगाद ॥७८ ॥ तदनु भगिनीभाषितस्य पश्चात् सोऽपि हीरकुमारोऽपि तां विमला प्रति इदमस्मिनेव काव्ये प्रोच्यमानं जगाद बभाषे । हे जामे, शैशवे बाल्येऽप्यहं मदाः जाति.. कुल-रूप-बल-श्रुत-लाभ-तप-ऐश्वर्य-नामानोऽष्टौ, तथा मोहो मौढ्यं रागो वा, त एव महेमा मत्तहस्तिनस्तान् हिंसितुं निहन्तुं समर्थोऽस्मि । क इव । सिंहशाव इव । यथा केसरिकिशोरकः शिशुत्वेऽपि गजेन्द्रान् दलयितुमलंभूष्णुर्भवेत् । 'विश्वव्यापि तमो हिनस्ति तरणिर्बालोऽपि कल्पाङ्कुरो दारिद्राणि गजावलि हरिशिशुः काष्ठानि वहे: कणः।' इति पूर्वाचार्यप्रणीतश्रीचिन्तामणिपार्श्वनाथस्तुतौ । तथा 'सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । न पुनर्नखमुखविलिखितभूतलकुहरस्थिते नकुले ॥' इति सूक्तेऽपि तत्कारणात्वं मम लघुभ्रातास्य संयमस्य ग्रहणस्य निदेशमाज्ञा देहि ॥ इति विमला खसार प्रति कुमारस्यापि तृतीयवारं प्रतिवचः ॥ .
तस्य वीचिभिरिवामरसिन्धोरुक्तियुक्तिभिरितोऽप्यपराभिः ।
ओमिति प्रवदति स्म कथंचित्सापि बाष्पभरगद्गदवाग्भिः ॥ ७९ ॥ अमरसिन्धोर्देवनद्याः गङ्गाया वीचिभिः रङ्गत्तरङ्गः इव तस्य कुमारस्य इतोऽप्येतत्पूवोक्तादप्यपराभिरन्याभिरुक्तियुक्तिभिर्वचनप्रपञ्चैः सा विमला जामिरपि कथंचिन्महता कष्टेन बाष्पाणां दु:खाश्रूणां भरेण निरन्तरप्रवाहेण कृत्वा गद्गदाभिरस्पष्टाक्षराभिर्वाग्भिर्वाणीभिः कृत्वा । ओमिति एवमस्त्विति प्रवदति स्म कथयति स्म । दीक्षादेशं ददावित्यर्थः ॥ इति विमलाया दीक्षादेशप्रदानम् ॥
पूर्वमेव नियमस्थितिकालात्सा गलद्बहुलदृग्जलपूरैः ।
भ्रातरं खयमिव मपयन्तीदं पुनर्गदितुमारभते स्म ॥ ८० ॥ सा विमला पुनरिदं वक्ष्यमाणं गतुिं वक्तुमारभते स्म उपचक्रमे । किं कुर्वती । । नियमस्थितिकालात्संयमग्रहणसमयात्पूर्व प्रथममेव गलतां लोचनद्वन्द्वानिःसरतां बहुलानामविच्छिन्नानां प्रवाहानां दृशोश्चक्षुषोर्जलानामनुसलिलानां पूरैर्धारावर्षप्लवैः कृत्वा । उत्प्रेक्ष्यते-भ्रातरं खबान्धवं नपयन्ती स्नानं कारयन्तीव ॥