________________
१९२
काव्यमाला।
अमुष्य हीरकुमारस्य मुखं वदनं बभासे राजते स्म । अमुष्य किं चक्रुषः । नेमुषः प्रणतस्य । क्व । सूरिराजस्य विजयदानमुनीन्द्रस्य चरणौ पादावेवाम्बुजे कमले तयो. युग्मे द्वन्द्वे । उत्प्रेक्ष्यते-अत्र गुरुपादाम्बुजे वसन्तीं नित्यस्थायुकां वासिनीमात्मनः खस्य जामि भगिनीं श्रियं लक्ष्मी मिलितुमिन्दुश्चन्द्र इवागतः समायातः । हीरकुमारवदनस्य पार्वणरोहिणीरमणस्य समानत्वादियमुपमा । चन्द्रलक्ष्म्योयोरपि समुद्रोत्पन्नत्वेन भ्रातृ. भगिन्योर्व्यवहारः । 'रत्नाकरस्तव पिता कमले निवासो भ्राता सुधामयतनुः पतिरादिदेवः । किं देवि केन कमले वद शिक्षितासि सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ इति सूक्ते॥
भाति तत्पदरजोऽस्य ललाटे पर्वमेव तिलकं कृतमेतत । त्वय्यथ त्वरितमेव समेप्ये भाषितुं किमिति तत्पदलक्ष्म्या ॥ १२ ॥ ..
तस्य गुरोः पदस्य चरणग्य रजो रेणुः अस्य हीरकुमारस्य भाले ललाटपट्टे राजते । उत्प्रेक्ष्यते-तत्पदलदम्या विजयदानसूरिपट्टश्रिया इत्यमुना प्रकारेण भाषितुं वक्तुं पूर्व प्रथममेव एतत्प्रत्यक्षलक्ष्यं किमु तिलकं विशेषकं कृतं रचितमिव । इति किं यत् अथ एतस्मात्सूरेः सकाशादहं त्वयि विषये त्वरितं शीघ्रमेव समेष्ये समागमिष्यामि समेष्ये । अयम् 'ईडच्' गौ दिवादिको धातुरात्मनेपदी च ॥
तस्य लोचनपथे पृथुकेन्द्रस्तस्थिवानथ यथासनमेषः । सक्रियेव विधिना परिषत्सा तेन कांचिदपुषच्च विभूषाम् ॥ १३ ॥
अथ वन्दनविधेरनन्तरम् एष हीरकुमारलक्षण: पृथुकेन्द्रः कुमारपुरंदरस्तस्य सूरे. लोचनयोनयनयोः पथे मार्गे । पथशब्दोऽकारान्तोऽप्यस्ति । 'यथा क: पथः स्मृतः' इति । 'तथापथः पथि स्मृतः' इति शब्दप्रभेदे । नकारान्तो वायम् । तत्र टाडका इति डप्रत्ययः । गुरोरणे इत्यर्थः । तस्थिवानुपविष्टः । कथम् । यथासनं यथास्थानम् आस्यते उपविश्यते अस्मिन् प्रदेशे इत्यासनम् । पुन:-~सा परिषत् सभा तेन हीरकुमारेण कांचिदपूर्वी विभूषां शोभामपुषत् पुष्णाति स्म । केव । सत्क्रियेव । यथा शोभनमनुष्टानं विधिना शास्त्रोक्तप्रकारेण कृत्वा शोभते ॥ इति हीरकुमारागमनगुरुवन्दने ।
देशनां शमवतां शतमन्युः स प्रबोधयितुमङ्गिसमाजम् । प्रादिशद्वरयिता वसतीनां कौमुदीमिव वनं कुमुदानाम् ॥ १४ ॥
स महावीरपट्टपरम्परायातो विजयदानसूरिः नामा शमवतामुपशमिनां साांधून मध्ये शतमन्युः शतक्रतुः शक्रः देशनां धर्मोपदेशं प्रादिशद्ददौ । व्याख्यानं करोति स्मेत्यर्थः । किं कर्तुम्। अङ्गिनां भव्यप्रगणिनां समाज सभां प्रबोधयितुं धर्म स्थापयितुम् । क इव । वरयितेव । यथा वसतीनां रात्रीणां कान्तश्रन्द्रः कुमुदानां कैरवाणां वनं काननमाकर वा प्रतिबोधयितुं विकाशयितुं कौमुदीं चन्द्रिका प्रदिशति । विस्तारयतीत्यर्थः ॥