________________
१८२
येनात्मा शिथिलीभवन्मुनिपथादप्युद्धतः सूरिणा
संसाराम्बुनिधेरिवोद्धतकुदृग्यादोत्रजव्याकुलात् ॥ १३३ ॥
यः श्रीआनन्द विमलसूरिः जन्मिभिर्भविकैः शिश्रिये श्रितः । किं कृत्वा । कुदृशः सौगतादीन् च पुनरशेषान् समस्तान् कुपक्षिकान् लुम्पाकप्रमुखान् त्यक्त्वा विमुच्य श्रितः । कैरिव । रोलम्बैरिव । यथा भ्रमरैः किंपाकनामानो महीरुहा महाकालपादपा: विषवृक्षास्तान्विहाय दूरेणापास्य पारिजातशिखरी मन्दारनामा दुमो वृक्षविशेषः कश्चित्सेव्यते । अथ वा कल्पवृक्षविशेषः । कल्पः, पारिजातः, मन्दारः, हरिचन्दनः, संतान, एते पञ्श्चापि देवद्रुमाः । कल्पद्रुमेष्वपि विशेषः पारिजातः । यथा रघौं— 'कल्पद्रुमाणामिव पारिजातः' इति । अपि पुनर्येन भगवता शिथिलीभवन् प्रमादपदवीं परि गच्छन् यो मुनीनां साधूनां पन्था मार्गस्तस्मादात्मा खजीव उद्धृतः । उत्प्रेक्ष्यते--: उद्धता उत्कटा ये कुदृशो दुर्वादिनः नैयायिकादयः परपक्षिकाः कुमतमतोद्बोधका वा त एव यादोत्रजा दुष्टजलचरनिकरा: मकरादयस्तैर्व्या कुलात्संकीर्णपरिपूर्णो भूताद्भयंक राद्वा संसारोऽनन्तधाभवपरम्पराभ्रमणरूपः स एवापारत्वादम्बुधिः समुद्रस्तस्मादिवोद्धृतः पारं प्रापितः ॥
शुद्धां क्रियामुद्धरतोऽस्य भाविनीमद्वत्प्रवृद्धिस्तमितीव शंसितुम् । स्वप्नेऽनुयुक्तेरनु कस्यचिज्जिनध्यातुर्द्वितीयेन्दुरदर्शयन्निजम् ॥ १३४ ॥ जिनस्य श्री पार्श्वनाथस्य ध्यातुन कर्तुः । पार्श्वनाथमन्त्राराधकस्येत्यर्थः । कुमर गिरिसत्कस्य कस्यचित् श्राद्धस्यानुयुक्तेः प्रश्नादनु पश्चात्स्वने स्वापंजागरावस्थायामुपविटस्यैव प्रभोः पुरः किंचिन्निद्रानिमीलितनयनस्य द्वितीयेन्दुः उदय द्वितीयादिनचन्द्रः निजमात्मानमदर्शयत् दर्शयति स्म । उत्प्रेक्ष्यते - इत्यमुना प्रकारेण शंसितुं कथयितुमित्र । इति किम् । मद्यथाद्य विविधातोद्यवादन जननमस्करणमहोत्सव विधानपूर्वकमहमुदितो दिने दिने चन्द्रिकालादिभिर्मम वृद्धिर्भाविनी । तथा —- शुद्ध निर्दोषां क्रियां यथावत्साधुमार्गानुष्ठानमुद्धरतोऽनुतिष्ठतः । विशुद्धकियोद्धारं विदधत इत्यर्थः । अस्य श्रीआनन्दविमलसूरेः प्रकर्षेण शिष्य प्रशिष्यमाहात्म्यादिभिर्ब्रद्धिर्भवित्री भविष्यवीति । तथा - क्रियोद्धारविधित्सुना सूरीन्द्रेण कश्चित्सिद्ध श्रीपार्श्वनाथमत्रः श्राद्धः प्रथमं पृष्टस्तेन च ध्यानं विदधता किंचिन्निद्रामुद्रितनेत्रेणाभ्युदयमानं द्वितीयाचन्द्र दृष्ट्वा समेत्य प्रभुपुरः प्रोचे ं । यद्ययं द्वितीयाचन्द्र इव दिने दिने वर्धमानाभ्युदयभाजो भविष्यथ, तच्चरितमेव क्रियोद्धारं कुरुत, विलम्बो नैव विधेयः । ततः श्रीआनन्दविमलसूरिणा श्रीहेमविमलसूरिशासनपूर्व शुद्ध क्रिया उद्धृता इति वादः ॥
जैनार्चाश्रमणाद्यभावभणनाम्भःप्लाव्यमानात्मनां
जज्ञे द्वीप इव व्रतीशितुरिहोद्धारः क्रियाया नृणाम् ।
काव्यमाला ।
"