________________
१७३
४ सर्गः] हीरसौभाग्यम् ।
श्रीमज्जगच्चन्द्र इदंपदश्रीललामलीलायितमाततान । • येनोज्झि शैथिल्यपथस्तटाको घनाविलो मानसवासिनेव ॥ १०८ ॥
श्रीमानतिशायिशोभाभाजनं जगञ्चन्द्र इति नाम्ना सूरिरिदं पदस्य इनदः एतदिल्यादिशब्दाः समासान्ता आपे दृदयन्ते । यथा नैषधे-'इदं यशांसि द्वेषतः सुधारुनः' इति । अनयोः सोमप्रभमणिरत्नसूरीन्द्रयोः पत्य श्रियो लक्ष्म्या २लान्नास्तलकत्य ललामस्य वा । ललामशब्दो नान्तोऽदन्तश्च । लीलायितं लीलावदाचरितं लीलयाचरितं वा आततान कुरुते म्म । गुरुपट्टलक्ष्मीतिलकमासीदित्यर्थः । येन श्रीजगञ्चन्द्रसूरिणा शथिल्यपथः स्वगच्छवासिसाधुजनानां कलिकालानुभावात्संयमपालने हीनतमाध्यवसाय. भाजां शिथिलताकलितो मार्ग औज्झि त्यक्त: । प्राचीनमुनीनां मार्ग आदत इत्यर्थः । त्यक्तः केनेव । मानसवासिनेव । यथा हंसेन घनेन मेघदृष्टया आविल: कलुषीभूतजलस्तटाक उज्झ्यते । वर्षाकाले हेि हंसा जलदजलागमनजम्वालबहुलीभूतपयांति सरांसि संत्यज्य मानसमेवाद्रियन्ते । 'झुद्धोलू कनखप्रपातविगलत्पक्षा अपि खाश्रयं ये नोज्झन्ति पुरीषपुष्टवपुर्घस्ते केचिदन्ये द्विजाः। ये तु वर्गतरङ्गिणीविसलतालेशेन संवधिता गहानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥' इति सूक्ते ॥
द्वात्रिंशदाशावसनैरभेद्यो वादं सृजन्हीरकवद्यदासीत् । आघाटभूपेन स हीरलाद्यो नाम्ना जगच्चन्द्र इति न्यगादि ॥ १०९ ॥ यद्यस्मात्कारणायः श्रीजगच्चन्द्रसूरिः द्वात्रिंशत्संख्याकैराशावसनेदिगम्बराचार्यवी. दिभिः सार्ध वादं मजन् कुर्वन् हीरकवद्वज्रमणिरिव अभेद्यो भेत्तुमशक्यः अजेय आसीन् तत्कारणादाघाटनामनगरस्य भूपेन राज्ञा संप्रति लोके आहडनगरमिति प्रसिद्धपुरम्य खामिना स सूरिः इदमेतन्यगादि प्रोक्तः । इदं किम् । यदयं सूरीन्द्रो नान्ना होरला इति पदमाद्यं यत्र तादृशो जगचन्द्र एतावता हीरलाजगञ्चन्द्रसूरिरिति कथितः ॥ ... आचाम्लकादशहायनान्ते तपेत्यवापविरुदं मुनीन्दुः । ___महाहवैरिविनिर्नयान्ते भर्तेव भूमेर्जितकाशिसंज्ञाम् ॥ ११० ॥
यो मुनीन्दुः श्रीजगन्चन्द्रसूरिः निरन्तरनिर्मितैराचाम्लके: केवलजलान्तर्भक्तभक्षणलक्षणतपोविशेषैः कृत्वा द्वादशसंख्याकानां हायनानां वर्षाणामन्तेऽवसाने तपा इति विरुदमवापत् प्राप । द्वादशवत्सरी यावनिरन्तरमाचाम्लान् कुर्वाणं यं प्रेक्ष्य नृपेण प्रोक्तं यदमी महातपा दृश्यन्ते तदा तपा इति विरुदवान् प्रभुरभुदित्यर्थः । क इव । भूमिभतेंव । यथा पृथ्वीपतिमहद्भिगुरुभिराहवैः संग्रामैः कृत्वा वैरिणां शतॄणां त्रिनिर्जयस्य पराभवनस्य प्रान्ते पर्यन्ते जितकाशी जिताहव इति संज्ञां प्राप्नोति ॥
अस्मात्ततः प्रादुरभूत्तपाख्या नेत्रादिवानेर्द्विजराजलेखा । अदीपि यस्माच मुमुक्षुलक्ष्म्या वसन्तमासादिव भानुभासा ॥ १११ ॥