________________
४ सर्गः हीरसौभाग्यम् ।
१६५ प्रणमनप्रवणं चकार कृतवान् । यः क इव । वसन्तो यद्वत् अत्र यदिगोवाथे । यथा वसन्तो मधुसमय: फलानि सस्यानि पुष्पाणि कुसुमानि पत्राणि पर्णानि तेषां भारेण वीवधेन कृत्वा फलदं वृक्षं नम्र भूमीमण्डलोपगतं कुरुते ॥ भयादिमेनाथ हरस्तवेन यो दुष्टदेवादिकृतोपसर्गान् । श्रीभद्रबाहुः स्वकृतोपसर्गहरस्तवेनेव जहार संघात् ॥ ७८ ॥ अथ पुनयों मानतुङ्गसूरियमिति पदमादिमं प्रथमं यत्र तादृशेन हरस्तवेन एतावता 'नमिऊण पणयसुरगण' इति नाम्ना भयहरस्तवेन कृत्वा संघाचातुर्वर्ण्यश्रीसंघमध्यादृष्टाः करा ये देवा व्यन्तरभवनपतिज्योतिष्का आदिशब्दाद्देव्यादीनां संग्रहस्तत्कृतोपसर्गान् तनिर्मितविविधोपप्लवान् जहार हृतवान् । क इव । श्रीभद्रबाहुरिव । यथा श्रीभद्रवाहुखामी स्वेनात्मना कृतं रचितं यत् ‘उवसग्गहरं पासं' इति नाम्ना स्तवनं श्रीपार्श्वनाथस्तोत्रं तेन कृत्वा चारित्रभ्रंशात्संघापमानितार्तध्यानाद्यन्तरीभूतवराहमिहिरविहितोपसर्ग हरति स्म ॥ इति मानतुङ्गसूरिः ॥
सद्ध्याननागेश्वररश्मिसाम्यमन्थाद्रिणालोड्य मदाम्बुराशिम् । तत्पट्टलक्ष्मीरथ वीरनाम्नाचार्येण वत्रे वनमालिनेव ॥ ७९ ॥ अथ मानसूरेरनन्तरं वीर इति नाम यस्य तादृशेनाचार्येण सूरिणा । वीराचार्येणेत्यर्थः। तस्य मानतुङ्गसूरेः पटलक्ष्मी: वत्रे वृता । केनेव । वनमालिनेव । यथा कृष्णेन श्री: समुद्रपुत्री बृता । किं कृत्वा । मद उन्मोहसंभेदः स एवाथ वा अष्टौ कुल-जाति-बलश्रुत-ऐश्वर्य-रूप-तप-लब्धिरूपा मदास्त एव समुद्रस्तं सत् शोभनं ध्यानं धर्मशुक्लरूपं प्रणिधानं तदेवोज्ज्वलत्वान्नागेश्वरः शेषनागः स एव रश्मिर्मथनरज्जु: तयुक्तो यः सम्म्यं समता तदेव मन्याद्रिर्मन्दराचल: तेनालोड्य निर्मथ्य कृष्णेनापि क्षीरसमुद्रं मथित्वा तदुद्भता श्रीः परिणीता ॥ इति वीराचार्यः ॥
ततोऽजनि श्रीजयदेवसूरिईरीकृताशेषकुवादिवृन्दः । यद्वाग्विलासैरवहेलितश्रीः सुधा किमु क्षीरनिधौ ममज्ज ॥ ८० ॥ 'ततो वीराचार्यादनन्तरं स श्रीजयदेवनामा सूरिरजनि संजज्ञे । किंभूतः । दूरीकृता वाद निर्जित्य निर्वासिता अशेषाः समग्रा अपि कुत्सितं जिनशासनविरुद्धं वदन्तीत्येवंशीलाः कुवादिन: सौगतादयः निह वादयो वा तेषां वृन्दः समुदायो येन । स कः । यस्य श्रीजयदेवस्य सूरेवाग्विलासर्वचनविलसितैरवहेलिता अवगणनां गमिता श्रीर्माधुर्यशोभा यस्यास्तादृशी सुधा पीयुषम् । उत्प्रेक्ष्यते-क्षीरनिधी दुग्धसमुद्रे इव ममज जाडेतेव ॥ इति श्रीजयदेवसूरिः ॥ स्वःकामिनीकीर्तितकीर्तिदेवानन्दश्चिदानन्दमना मुनीन्द्रः। तारुण्यमेणाङ्कमुखीमिवैतत्पदृश्रियं वैभवमानिनाय ॥ ८१ ॥